पञ्चोप॑ दधाति॒ पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान् क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मा᳚थ् समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑द्-ऋ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान् द॑धाति॒ तस्मा᳚थ् समा॒नाः सन्त॑ ऋ॒तवो॒ न जी᳚र्यन्त्यथो॒ प्रज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत् प्रा॒णो यद्-ऋ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृत॑ - [ ]
पदपाठः (Word-by-word)
पञ्च॑ । उपेति॑ । द॒धा॒ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । याव॑न्तः । ए॒व । ऋ॒तवः॑ । तान् । क॒ल्प॒य॒ति॒ । स॒मा॒नप्र॑भृतय॒ इति॑ समा॒न - प्र॒भृ॒त॒यः॒ । भ॒व॒न्ति॒ । स॒मा॒नोद॑र्का॒ इति॑ समा॒न - उ॒द॒र्काः॒ । तस्मा᳚त् । स॒मा॒नाः । ऋ॒तवः॑ । एके॑न । प॒देन॑ । व्याव॑र्तन्त॒ इति॑ वि - आव॑र्तन्ते । तस्मा᳚त् । ऋ॒तवः॑ । व्याव॑र्तन्त॒ इति॑ वि-आव॑र्तन्ते । प्रा॒ण॒भृत॒ इति॑ प्राण-भृतः॑ । उपेति॑ । द॒धा॒ति॒ । ऋ॒तुषु॑ । ए॒व । प्रा॒णानिति॑ प्र - अ॒नान् । द॒धा॒ति॒ । तस्मा᳚त् । स॒मा॒नाः । सन्तः॑ । ऋ॒तवः॑ । न । जी॒र्य॒न्ति॒ । अथो॒ इति॑ । प्रेति॑ । ज॒न॒य॒ति॒ । ए॒व । ए॒ना॒न् । ए॒षः । वै । वा॒युः । यत् । प्रा॒ण इति॑ प्र - अ॒नः । यत् । ऋ॒त॒व्याः᳚ । उ॒प॒धायेत्यु॑प - धाय॑ । प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ ।