प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.1.4 TS 5.3.1.4
यं का॒मये॑ताप॒शुः स्या॒दिति॑ वय॒स्या᳚स्तस्यो॑-प॒धाया॑प॒स्या॑ उप॑ दद्ध्या॒द स᳚ज्ञांनमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्-स्या॒दित्य॑-प॒स्या᳚स्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दद्ध्याथ् स॒ज्ञांन॑मे॒वास्मै॑ प॒शुभिः॑ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रः पु॒रस्ता॒दुप॑ दधाति॒ तस्मा᳚च्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे - [ ]
पदपाठः (Word-by-word)
यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ । व॒य॒स्याः᳚ । तस्य॑ । उ॒प॒धायेत्यु॑प - धाय॑ । अ॒प॒स्याः᳚ । उपेति॑ । द॒द्ध्या॒त् । अस᳚ज्ञांन॒मित्यसं᳚ - ज्ञा॒न॒म् । ए॒व । अ॒स्मै॒ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । क॒रो॒ति॒ । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । इति॑ । अ॒प॒स्याः᳚ । तस्य॑ । उ॒प॒धायेत्यु॑प - धाय॑ । व॒य॒स्याः᳚ । उपेति॑ । द॒द्ध्या॒त् । स॒ज्ञांन॒मिति॑ सं - ज्ञान᳚म् । ए॒व । अ॒स्मै॒ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । क॒रो॒ति॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । चत॑स्रः । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । च॒त्वारि॑ । चक्षु॑षः । रू॒पाणि॑ । द्वे इति॑ । शु॒क्ले इति॑ । द्वे इति॑ । कृ॒ष्णे इति॑ ।
पदसंख्या: 50