प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.10.2 TS 5.3.10.2
-मे॒वैताभि॒ र्यज॑मान इ॒मान् ॅलो॒कान्थ् सं ॅया॑ति प्ल॒वो वा ए॒षो᳚ऽग्नेर्यथ् सं॒ॅयानी॒र्यथ् सं॒ॅयानी॑रुप॒दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निꣳ हर॒न्त्यहृ॑त ए॒वास्या॒-ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तं भूत्यै॒ प्रति॑नुदन्ते॒ योऽलं॒ भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्या - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒ताभिः॑ । यज॑मानः । इ॒मान् । लो॒कान् । समिति॑ । या॒ति॒ । प्ल॒वः । वै । ए॒षः । अ॒ग्नेः । यत् । सं॒ॅयानी॒रिति॑ सं - यानीः᳚ । यत् । सं॒ॅयानी॒रिति॑ सं - यानीः᳚ । उ॒प॒दधा॒तीत्यु॑प-दधा॑ति । प्ल॒वम् । ए॒व । ए॒तम् । अ॒ग्नये᳚ । उपेति॑ । द॒धा॒ति॒ । उ॒त । यस्य॑ । ए॒तासु॑ । उप॑हिता॒स्वित्युप॑ - हि॒ता॒सु॒ । आपः॑ । अ॒ग्निम् । हर॑न्ति । अहृ॑तः । ए॒व । अ॒स्य॒ । अ॒ग्निः । आ॒दि॒त्ये॒ष्ट॒का इत्या॑दित्य - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । आ॒दि॒त्याः । वै । ए॒तम् । भूत्यै᳚ । प्रतीति॑ । नु॒द॒न्ते॒ । यः । अल᳚म् । भूत्यै᳚ । सन्न् । भूति᳚म् । न । प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । आ॒दि॒त्याः ।
पदसंख्या: 50