-थो॒ तेज॑सा ऽनुपरि॒हारꣳ॑ सादय॒-त्यप॑रिवर्ग-मे॒वास्मि॒न् तेजो॑ दधाति प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या᳚र्द्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त् ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन् ध॑त्ते॒ पञ्चोप॑ दधाति॒ पाङ्क्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्॒ यशो॑ दधाति ॥
पदपाठः (Word-by-word)
अथो॒ इति॑ । तेज॑सा । अ॒नु॒प॒रि॒हार॒मित्य॑नु - प॒रि॒हार᳚म् । सा॒द॒य॒ति॒ । अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । ए॒व । अ॒स्मि॒न्न् । तेजः॑ । द॒धा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । सः । यश॑सा । वीति॑ । आ॒द्र्ध्य॒त॒ । सः । ए॒ताः । य॒शो॒दा इति॑ यशः - दाः । अ॒प॒श्य॒त् । ताः । उपेति॑ । अ॒ध॒त्त॒ । ताभिः॑ । वै । सः । यशः॑ । आ॒त्मन्न् । अ॒ध॒त्त॒ । यत् । य॒शो॒दा इति॑ यशः - दाः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । यशः॑ । ए॒व । ताभिः॑ । यज॑मानः । आ॒त्मन्न् । ध॒त्ते॒ । पञ्च॑ । उपेति॑ । द॒धा॒ति॒ । पाङ्क्तः॑ । पुरु॑षः । यावान्॑ । ए॒व । पुरु॑षः । तस्मिन्न्॑ । यशः॑ । द॒धा॒ति॒ ॥