दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् कनी॑याꣳसो दे॒वा आस॒न् भूयाꣳ॒॒सो-ऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न् ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाꣳ॑सोऽभव॒न् वन॒स्पति॑भि॒-रोष॑धीभि-र्वरिव॒स्कृद॒सीती॒-माम॑जय॒न् प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन्नू॒र्द्ध्वा ऽसीत्य॒मूम॑जयन्-नन्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒-न्तरि॑क्षमजय॒न् ततो॑ दे॒वा अभ॑व॒न् - [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । कनी॑याꣳसः । दे॒वाः । आसन्न्॑ । भूयाꣳ॑सः । असु॑राः । ते । दे॒वाः । ए॒ताः । इष्ट॑काः । अ॒प॒श्य॒न्न् । ताः । उपेति॑ । अ॒द॒ध॒त॒ । भू॒य॒स्कृदिति॑ भूयः - कृत् । अ॒सि॒ । इति॑ । ए॒व । भूयाꣳ॑सः । अ॒भ॒व॒न्न् । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ । ओष॑धीभि॒रित्योष॑धि - भिः॒ । व॒रि॒व॒स्कृदिति॑ वरिवः - कृत् । अ॒सि॒ । इति॑ । इ॒माम् । अ॒ज॒य॒न्न् । प्राची᳚ । अ॒सि॒ । इति॑ । प्राची᳚म् । दिश᳚म् । अ॒ज॒य॒न्न् । ऊ॒द्र्ध्वा । अ॒सि॒ । इति॑ । अ॒मूम् । अ॒ज॒य॒न्न् । अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् । अ॒सि॒ । अ॒न्तरि॑क्षे । सी॒द॒ । इति॑ । अ॒न्तरि॑क्षम् । अ॒ज॒य॒न्न् । ततः॑ । दे॒वाः । अभ॑वन्न् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवासुरा इत्यादि ॥ भूयस्कृतां विधिः । कनीयांसः अल्पतराः क्षीणभूयिष्ठा देवा आसन् । असुरास्तु भूयांसः बहुधा समृद्धा आसन् । ते देवा एता 'भूयस्कृदसि' इत्याद्याः भूयस्कृतोपश्यन् उपादधत च एताश्च पच । एकैका दिक्षु एकाम्मध्ये 'भूयस्कृदसि' इत्येतामुपधाय वनस्पतिभिरोषधीभिः ज्यायांसोभवन् अक्षीयमाणा अभवन् ॥
2 वरिवस्कृदसीत्यादि ॥ समृद्धिकथनम् । ततो देवा अभवन् । असुराः परा भूताः । यस्येत्यादि गतम् ॥
3 अथ अप्सुषदसीत्याद्याः पच एकैका दिक्षु एकां मध्ये । एतद्वा इति । अबादयः । अप्सुषदादयः - अप्सु सीदन्तीति क्विप् । 'तत्पुरुषेकृति बहुळम्' इत्यलुक् ॥
4 अथ 'पृथिव्यास्त्वा द्रविणे सादयामि' इत्याद्या द्रविणोदाः पच एकैका दिक्षु एकां मध्ये । द्रविणस्य धनस्य धात्र्यः । पूर्वपदस्यासुगागमश्छान्दसः । द्रविणावतः धनवतः । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् ॥
5 अथ प्राणं मे पाहीत्याद्या आयुष्याः सप्त । एकैका दिक्षु तिस्रो मध्ये । केचिदाहुः - षडायुष्याः 'अग्ने यत्ते' इति, सप्तमं अग्नेर्हृदयं इति । आयुर्मे पाहीत्यायुश्शब्दवता मन्त्रेणोपधेयत्वादायुष्याः । पूर्ववत् छत्रिन्यायेन सर्वा अप्यायुष्याः । यद्वा - आयुषो निमित्ताः । 'गोद्व्यचः' इति यत् । अत्र 'यस्यैता उपधीयन्ते' इति भूयस्कृत्सूपधानं श्रूयते, 'आयुष्या उपदधाति' इति च आद्युष्यासु । अप्सुषत्सु द्रविणोदासु नोपधानं श्रूयते । तत्र पचदशाप्येता भूयस्कृत इव लक्ष्यन्ते । एतद्वा इति । अग्निहृदयाख्या सप्तमी । तस्मादस्या उपधानेन अग्नेः प्रियं धामोपाप्नोति ॥
6 व्येवैनेनेति ॥ एनेनाग्निना सह विपरिधत्ते यजमानव्यापारनियमेपि सभा [सहभा] वा भाव(?) इति द्वयोरेकी भूतत्वात् ॥
7 एषवा इति । पच चितयो निवृत्ता यस्य सोग्निः पाञ्चजन्यः पचसु योनिभूतासु चितिषु भवः पाञ्चजन्यः । छान्दसो यः । तस्मादेवमिति । कः? पञ्चस्वपि जनेषु एधि भव आह अग्न इति मन्त्रः ॥
8 ऋतव्या इति । 'यावा अया वा' इत्याद्यास्सप्तर्तव्याः । एकैका दिक्षु तिस्रो मध्ये । ऋतुप्राप्तिहेतुभूता ऋतव्याः । पूर्ववद्यत् ॥
9 सुमेक इति ॥ शोभनमेहनः प्रजानामुत्पादयितॄणां मुख्यः संवत्सरः । ककारश्छान्दसः । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
इति पञ्चमे तृतीये एकादशोनुवाकः ॥