पराऽसु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमान् ॅलो॒कान् ज॑यति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यफ्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पꣳ रू॒पेणै॒वाग्निमव॑ रुन्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मी-त्या॑हे॒माने॒वैताभि॑-र्लो॒कान् द्रवि॑णावतः कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒वा - [ ]
पदपाठः (Word-by-word)
परेति॑ । असु॑राः । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । भूयान्॑ । ए॒व । भ॒व॒ति॒ । अ॒भीति॑ । इ॒मान् । लो॒कान् । ज॒य॒ति॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । अ॒फ्सु॒षदित्य॑फ्सु - सत् । अ॒सि॒ । श्ये॒न॒सदिति॑ श्येन - सत् । अ॒सि॒ । इति॑ । आ॒ह॒ । ए॒तत् । वै । अ॒ग्नेः । रू॒पम् । रू॒पेण॑ । ए॒व । अ॒ग्निम् । अवेति॑ । रु॒न्धे॒ । पृ॒थि॒व्याः । त्वा॒ । द्रवि॑णे । सा॒द॒या॒मि॒ । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । ए॒ताभिः॑ । लो॒कान् । द्रवि॑णावत॒ इति॒ द्रवि॑ण - व॒तः॒ । कु॒रु॒ते॒ । आ॒यु॒ष्याः᳚ । उपेति॑ । द॒धा॒ति॒ । आयुः॑ । ए॒व ।