प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.2.4 TS 5.3.2.4
प॒शव॑ उच्यन्ते॒ मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा᳚द्-दक्षि॒णा वृ॑तो॒ मासाः᳚ पृथि॒वी छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतो ऽभिप्रया॒यी ज॑यति॒ षट्त्रिꣳ॑श॒थ् संप॑द्यन्ते॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्धे बृह॒ती छन्द॑साꣳ॒॒ स्वारा᳚ज्यं॒ परी॑याय॒ यस्यै॒ता - [ ]
पदपाठः (Word-by-word)
प॒शवः॑ । उ॒च्य॒न्ते॒ । मा । छन्दः॑ । इति॑ । द॒क्षि॒ण॒तः । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । द॒क्षि॒णावृ॑त॒ इति॑ दक्षि॒णा - आ॒वृ॒तः॒ । मासाः᳚ । पृ॒थि॒वी । छन्दः॑ । इति॑ । प॒श्चात् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अ॒ग्निः । दे॒वता᳚ । इति॑ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । ओजः॑ । वै । अ॒ग्निः । ओजः॑ । ए॒व । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । ध॒त्ते॒ । तस्मा᳚त् । उ॒त्त॒र॒तो॒ऽभि॒प्र॒या॒यीत्यु॑त्तरतः - अ॒भि॒प्र॒या॒यी । ज॒य॒ति॒ । षट्त्रिꣳ॑श॒दिति॒ षट् - त्रिꣳ॒॒श॒त् । समिति॑ । प॒द्य॒न्ते॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत् - अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । बृ॒ह॒ती । छन्द॑साम् । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । परीति॑ । इ॒या॒य॒ । यस्य॑ । ए॒ताः ।
पदसंख्या: 50