उ॑पधी॒यन्ते॒ गच्छ॑ति॒ स्वारा᳚ज्यꣳ स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चाथ् स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णा द्वाववा᳚ञ्चौ प्रा॒णानाꣳ॑ सवीर्य॒त्वाय॑ मू॒र्द्धाऽसि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात् प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ॥
पदपाठः (Word-by-word)
उ॒प॒धी॒यन्त॒ इत्यु॑प-धी॒यन्ते᳚ । गच्छ॑ति । स्वारा᳚ज्य॒मिति॒ स्व-रा॒ज्य॒म् । स॒प्त । वाल॑खिल्या॒ इति॒ वाल॑ - खि॒ल्याः॒ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । स॒प्त । प॒श्चात् । स॒प्त । वै । शी॒र्.॒ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । द्वौ । अवा᳚ञ्चौ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । मू॒द्र्धा । अ॒सि॒ । राट् । इति॑ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । यन्त्री᳚ । राट् । इति॑ । प॒श्चात् । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒स्मै॒ । स॒मीचः॑ । द॒धा॒ति॒ ॥