प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.4.2 TS 5.3.4.2
-मन्नꣳ॑ सप्तद॒शो-ऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द् दक्षि॑णे॒ना-न्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात् प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न् दधाति दि॒वो वृ॒ष्टिर्वाताः᳚ स्पृ॒ता ए॑कविꣳ॒॒शः स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कविꣳ॒॒शः प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑ क्ष॒त्रमोजः॑ पञ्चद॒श - [ ]
पदपाठः (Word-by-word)
अन्न᳚म् । स॒प्त॒द॒श इति॑ सप्त - द॒शः । अन्न᳚म् । ए॒व । द॒क्षि॒ण॒तः । ध॒त्ते॒ । तस्मा᳚त् । दक्षि॑णेन । अन्न᳚म् । अ॒द्य॒ते॒ । मि॒त्रस्य॑ । भा॒गः । अ॒सि॒ । इति॑ । प॒श्चात् । प्रा॒ण इति॑ प्र - अ॒नः । वै । मि॒त्रः । अ॒पा॒न इत्य॑प - अ॒नः । वरु॑णः । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । दि॒वः । वृ॒ष्टिः । वाताः᳚ । स्पृ॒ताः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । स्तोमः॑ । इति॑ । आ॒ह॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ । इन्द्र॑स्य । भा॒गः । अ॒सि॒ । इति॑ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । ओजः॑ । वै । इन्द्रः॑ । ओजः॑ । विष्णुः॑ । ओजः॑ । क्ष॒त्रम् । ओजः॑ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
पदसंख्या: 50