प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.4.6 TS 5.3.4.6
यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्याऽस्य॒ मुख्यो॑ जायते॒ यस्या-न्न॑वती - र्दक्षिण॒तो-ऽत्त्यन्न॒माऽस्या᳚न्ना॒दो जा॑यते॒ यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात् प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्याऽस्यौ॑ज॒स्वी जा॑यते॒ ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रं ॅयदे॒षा वि॒धा - [ ]
पदपाठः (Word-by-word)
यस्य॑ । मुख्य॑वती॒रिति॒ मुख्य॑ - व॒तीः॒ । पु॒रस्ता᳚त् । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । मुख्यः॑ । ए॒व । भ॒व॒ति॒ । एति॑ । अ॒स्य॒ । मुख्यः॑ । जा॒य॒ते॒ । यस्य॑ । अन्न॑वती॒रित्यन्न॑ - व॒तीः॒ । द॒क्षि॒ण॒तः । अत्ति॑ । अन्न᳚म् । एति॑ । अ॒स्य॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । जा॒य॒ते॒ । यस्य॑ । प्र॒ति॒ष्ठाव॑ती॒रिति॑ प्रति॒ष्ठा - व॒तीः॒ । प॒श्चात् । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यस्य॑ । ओज॑स्वतीः । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । ओ॒ज॒स्वी । ए॒व । भ॒व॒ति॒ । एति॑ । अ॒स्य॒ । ओ॒ज॒स्वी । जा॒य॒ते॒ । अ॒र्कः । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । ए॒तत् । ए॒व । स्तो॒त्रम् । ए॒तत् । श॒स्त्रम् । यत् । ए॒षा । वि॒धेति॑ वि - धा ।
पदसंख्या: 50