प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.4.7 TS 5.3.4.7
वि॑धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒ते ऽत्त्यन्न॒माऽस्या᳚न्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वं ॅवेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुन्धे॒ न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तं॒ ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न् ता उपा॑दधत॒ ततो॒ वा इ॒दं ( ) ॅव्यौ᳚च्छ॒द्-यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑हते ॥श्पेचिअल् खोर्वै fओर् अनुवाकम्(अ॒ग्ने - र्नृ॒चक्ष॑सां - ज॒नित्रं॑ - मि॒त्र - स्येन्द्र॑स्य॒ -वसू॑ना - मादि॒त्याना॒ - मदि॑त्यै - दे॒वस्य॑ सवि॒तुः - सा॑वि॒त्रव॑ती - ध॒र्त्रो - यावा॑ना-मृभू॒णां - ॅवि॑व॒र्त - श्चतु॑र्दश)
पदपाठः (Word-by-word)
वि॒धी॒यत॒ इति॑ वि - धी॒यते᳚ । अ॒र्के । ए॒व । तत् । अ॒र्क्य᳚म् । अनु॑ । वीति॑ । धी॒य॒ते॒ । अत्ति॑ । अन्न᳚म् । एति॑ । अ॒स्य॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । जा॒य॒ते॒ । यस्य॑ । ए॒षा । वि॒धेति॑ वि - धा । वि॒धी॒यत॒ इति॑ वि - धी॒यते᳚ । यः । उ॒ । च॒ । ए॒ना॒म् । ए॒वम् । वेद॑ । सृष्टीः᳚ । उपेति॑ । द॒धा॒ति॒ । य॒था॒सृ॒ष्टमिति॑ यथा - सृ॒ष्टम् । ए॒व । अवेति॑ । रु॒न्धे॒ । न । वै । इ॒दम् । दिवा᳚ । न । नक्त᳚म् । आ॒सी॒त् । अव्या॑वृत्त॒मित्यवि॑ - आ॒वृ॒त्त॒म् । ते । दे॒वाः । ए॒ताः । व्यु॑ष्टी॒रिति॒ वि - उ॒ष्टीः॒ । अ॒प॒श्य॒न्न् । ताः । उपेति॑ । अ॒द॒ध॒त॒ । ततः॑ । वै । इ॒दम् ( ) । वीति॑ । औ॒च्छ॒त् । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । वीति॑ । ए॒व । अ॒स्मै॒ । उ॒च्छ॒ति॒ । अथो॒ इति॑ । तमः॑ । ए॒व । अपेति॑ । ह॒ते॒ ॥(अ॒ग्ने - र्नृ॒चक्ष॑सां - ज॒नित्रं॑ - मि॒त्र - स्येन्द्र॑स्य॒ -वसू॑ना - मादि॒त्याना॒ - मदि॑त्यै - दे॒वस्य॑ सवि॒तुः - सा॑वि॒त्रव॑ती - ध॒र्त्रो - यावा॑ना-मृभू॒णां - ॅवि॑व॒र्त - श्चतु॑र्दश)
पदसंख्या: 64