ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् तन्ना॑क॒सदां᳚ नाकस॒त्त्वं ॅयन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्-यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अकं॑ भवति यजमानायत॒नं ॅवै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा᳚त्या॒यत॑नमे॒व तद्-यज॑मानः कुरुते पृ॒ष्ठानां॒ ॅवा ए॒तत् तेजः॒ संभृ॑तं॒ ॅयन्ना॑क॒सदो॒ यन्ना॑क॒सद॑ - [ ]
पदपाठः (Word-by-word)
ना॒क॒सद्भि॒रिति॑ नाक॒सत् - भिः॒ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । तत् । ना॒क॒सदा॒मिति॑ नाक - सदा᳚म् । ना॒क॒स॒त्त्वमिति॑ नाकसत् - त्वम् । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ना॒क॒सद्भि॒रिति॑ नाक॒सत् - भिः॒ । ए॒व । तत् । यज॑मानः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ए॒ति॒ । सु॒व॒र्ग इति॑ सुवः-गः । वै । लो॒कः । नाकः॑ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । न । अ॒स्मै॒ । अक᳚म् । भ॒व॒ति॒ । य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् । वै । ना॒क॒सद॒ इति॑ नाक - सदः॑ । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । आ॒यत॑न॒मित्या᳚ - यत॑नम् । ए॒व । तत् । यज॑मानः । कु॒रु॒ते॒ । पृ॒ष्ठाना᳚म् । वै । ए॒तत् । तेजः॑ । संभृ॑त॒मिति॒ सं - भृ॒त॒म् । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 नाकसद्भिरित्यादिना नाकसदां विधिः ॥ नाकस्य पृष्ठे स्वर्गे लोके इत्यनुषङ्गः । तेनोपलक्षिता नाकसदः 'राज्ञ्यसि' इत्यादयः पञ्च एकैका दिक्षु एकां मध्ये उपदधानः अस्माकं कं सुखं अकं दुखं तत्स्वभावो न भवतीति नाकः । 'नभ्राण्णपात्' इति प्रकृत्या भावः ॥
2 यजमानायतनमिति ॥ तत्साधनत्वात्ताच्छब्द्यम् ॥
3 पृष्ठानामिति ॥ रथन्तरादीनां साम्नां तेजस्सम्भृतं इष्टकारूपेण । तस्मात् पृष्ठसाध्यं तेजः आसामुपधानेन लभते ॥
4 पञ्चचोडा इति ॥ उपरिष्टान्नाकसदामुपदधाति तस्मा त्प्राचीमुत्तमां नाकसद एव 'अयं पुरो हरिकेशः' इत्याद्याः पञ्च एकैका दिक्षु एकां मध्ये । चुड संवरणे, चोडाः संवृताभ्यः अप्सरसः संस्तवात् पञ्चैव चोडाः पञ्चचोडाः । 'दिक्संख्ये सज्ञायाम्' इति समासः सप्तर्षिवत् । एताः पञ्चचोडाः अप्सरसः एवम्भूता अमुष्मिन् लोके यजमानमुपशेरते रमयन्ति जायाभूताः । 'लोपस्त आत्मनेपदेषु' इति लोपः 'बहुलं छन्दसि' इति रुट् । अथो अपि च एता यजमानस्य तनूपानीः शरीरस्य पालिन्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । तस्माद्यजमानो यं द्विष्यात्तं पुरुषं एता उपदध्यात् । एताभ्यः तनूपानीभ्यः पञ्चचोडाभ्यो देवताभ्य एनं द्वेष्यमावृश्चति छिनत्ति पृथक्त्वेनोपधानकाले ध्यातत्वात् । ततश्च विनष्टतनुस्सन् तदानीमेवार्तिं गच्छति ॥
5 उत्तरा इत्यादि ॥ उत्तराः उद्गततरा नाकसद्भ्य उपदधाति पञ्चचोडाः । यथेत्यादि । आयतनस्थानीयानां नाकसदां उपरि जायास्थानीयानां पञ्चचोडानां उपधानात् ॥
6 पश्चात्प्राचीमित्यादि ॥ प्राच्यां प्राङ्मुख उत्तमां अन्त्यामुपदधाति । केचिदाहुः - प्राचीं दक्षिणां उत्तरां मध्यमाञ्चोपधाय प्रतीच्यां दिशि क्रमोपधेया तृतीया ॥
7 प्राणो वा इत्यादि ॥ प्राणस्थानीया स्वयमातृण्णा विकर्णी चापि शब्द्यते ॥
8 यदित्यादि ॥ अपिदध्यात् तिरोदध्यात् नाशयेत् । तस्मादन्या तयोरुपरि निधेयेति ॥
9 स्वयमातृण्णामित्यादि ॥ व्याख्यातम् । 'असौ वै' इत्यादि शेषः ॥
10 एषा वा इत्यादि ॥ विक्रान्तिः विजयशक्तिः तामनुविक्रमते तया सहाप्रतिबन्धेन आक्रामति । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम् । 'वृत्तिसर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् ॥
11 उत्तरत इति ॥ उत्तरतः प्रक्रमवेलायां प्रकीर्णमुपदधाति । उत्तरत उपचारः उत्तरस्यां दिशि कर्तव्या उपचारा यस्य तादृशोग्निः तस्माद्भवति ॥
12 वायुमतीति ॥ वायुशब्दवान्मन्त्रः 'आदस्य वातः' इति । 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । समिध्या इति । अग्नेस्समिन्धनार्थाम् । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
इति पञ्चमे तृतीये सप्तमोनुवाकः ॥