उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्धे पञ्च॒चोडा॒ उप॑ दधात्यफ्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑न् ॅलो॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं द्वि॒ष्यात् तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् - [ ]
पदपाठः (Word-by-word)
उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । पृ॒ष्ठाना᳚म् । ए॒व । तेजः॑ । अवेति॑ । रु॒न्धे॒ । प॒ञ्च॒चोडा॒ इति॑ पञ्च - चोडाः᳚ । उपेति॑ । द॒धा॒ति॒ । अ॒फ्स॒रसः॑ । ए॒व । ए॒न॒म् । ए॒ताः । भू॒ताः । अ॒मुष्मिन्न्॑ । लो॒के । उपेति॑ । शे॒रे॒ । अथो॒ इति॑ । त॒नू॒पानी॒रिति॑ तनू - पानीः᳚ । ए॒व । ए॒ताः । यज॑मानस्य । यम् । द्वि॒ष्यात् । तम् । उ॒प॒दध॒दित्यु॑प - दध॑त् । ध्या॒ये॒त् । ए॒ताभ्यः॑ । ए॒व । ए॒न॒म् । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । उत्त॑रा॒ इत्युत् - त॒राः । ना॒क॒सद्भ्य॒ इति॑ नाक॒सत्-भ्यः॒ । उपेति॑ । द॒धा॒ति॒ । यथा᳚ । जा॒याम् । आ॒नीयेत्या᳚ - नीय॑ । गृ॒हेषु॑ । नि॒षा॒दय॒तीति॑ नि - सा॒दय॑ति । ता॒दृक् । ए॒व । तत् ।