च॒ यज॑मानस्य च प्रा॒णं चाऽऽ*यु॒श्चापि॑ दद्ध्या॒त् तस्मा॒न्ना-न्योत्त॒रेष्ट॑कोप॒धेया᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णा- ऽमूमे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्याऽनु॑ख्यात्या ए॒षा वै ( ) दे॒वानां॒ ॅविक्रा᳚न्ति॒र्यद्-वि॑क॒र्णी यद्-वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ विक्र॑मत उत्तर॒त उप॑दधाति॒ तस्मा॑दुत्तर॒त उ॑पचारो॒ऽग्नि र्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ॥
पदपाठः (Word-by-word)
च॒ । यज॑मानस्य । च॒ । प्रा॒णमिति॑ प्र - अ॒नम् । च॒ । आयुः॑ । च॒ । अपीति॑ । द॒द्ध्या॒त् । तस्मा᳚त् । न । अ॒न्या । उत्त॒रेत्युत्-त॒रा॒ । इष्ट॑का । उ॒प॒धेयेत्यु॑प - धेया᳚ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । अ॒सौ । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । अ॒मूम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ । घ्रा॒प॒य॒ति॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अ॒स्या॒म् । द॒धा॒ति॒ । अथो॒ इति॑ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । अश्वः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । भ॒व॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । अथो॒ इति॑ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । ए॒षा । वै ( ) । दे॒वाना᳚म् । विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ । यत् । वि॒क॒र्णीति॑ वि - क॒र्णी । यत् । वि॒क॒र्णीमिति॑ वि - क॒र्णीम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । दे॒वाना᳚म् । ए॒व । विक्रा᳚न्ति॒मिति॒ वि- क्रा॒न्ति॒म् । अनु॑ । वीति॑ । क्र॒म॒ते॒ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । उ॒त्त॒र॒त उ॑पचार॒ इत्यु॑त्तर॒तः - उ॒प॒चा॒रः॒ । अ॒ग्निः । वा॒यु॒मतीति॑ वायु - मती᳚ । भ॒व॒ति॒ । समि॑द्ध्या॒ इति॒ सं - इ॒द्ध्यै॒ ॥