प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.8.1 TS 5.3.8.1
छन्दाꣳ॒॒स्युप॑ दधाति प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुन्धे॒ छन्दाꣳ॑सि॒ वै दे॒वानां᳚ ॅवा॒मं प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्ध ए॒ताꣳ ह॒ वै य॒ज्ञ्से॑न-श्चैत्रियाय॒ण-श्चितिं॑ ॅवि॒दां च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्धे गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व - [ ]
पदपाठः (Word-by-word)
छन्दाꣳ॑सि । उपेति॑ । द॒धा॒ति॒ । प॒शवः॑ । वै । छन्दाꣳ॑सि । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । छन्दाꣳ॑सि । वै । दे॒वाना᳚म् । वा॒मम् । प॒शवः॑ । वा॒मम् । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । ए॒ताम् । ह॒ । वै । य॒ज्ञ्से॑न॒ इति॑ य॒ज्ञ् - से॒नः॒ । चै॒त्रि॒या॒य॒णः । चिति᳚म् । वि॒दाम् । च॒का॒र॒ । तया᳚ । वै । सः । प॒शून् । अवेति॑ । अ॒रु॒न्ध॒ । यत् । ए॒ताम् । उ॒प॒दधा॒तीत्यु॑प - द॒धा॑ति । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । गा॒य॒त्रीः । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । तेजः॑ । वै । गा॒य॒त्री । तेजः॑ । ए॒व ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 छन्दांस्युपदधातीत्यादि ॥ छन्दोभिः गायत्र्यादिभिः उपधेया इष्टका छन्दांसि 'अग्निर्मूर्धा' इत्याद्याः तिस्रस्तिस्रो यथाम्नानमेकैकस्यां दिशि । पशवो वा इति । तत्साधनत्वात्ताच्छब्द्यम् । नानारूपत्वाद्वा । छन्दांसि वा इति । देवानां स्वभूतं वामं वननीयं यद्धनं पश्वात्त्मकं तत्खलु छन्दांसि । तस्माच्छन्दसामुपधानेन पश्वात्मकं धनं वाममवरुन्धे ॥
2 एतां ह वा इत्यादि ॥ यज्ञसेनो नाम चित्रियायणस्य अपत्यं पुमान् चैत्रियायणः । 'वृद्धस्य च पूजायाम्' इति युवत्वम्, 'यञिञोश्च' इति फक् । नडादिश्चायं द्रष्टव्यः । यद्वा - नडादिषु चित्रशब्दः पठ्यते । तस्माति फक् । छान्दसो यकारोपजनः । स एताः छन्दश्चितिं विदांचकार ज्ञातवान् । 'उपविदजागृभ्यः' इत्याम्प्रत्ययः । विदेरदन्त्विति निपातनाद्गुणाभावः । तयेत्यादि । गतम् ॥
3 गायत्रीरिति ॥ 'अग्निर्मूर्धा' इत्याद्याः । तेजो या इति । तेजोहेतुत्वात् तेजसा सहोत्पन्नत्वात् ॥
4 मूर्धन्वतीरिति ॥ वयस्यासुमूर्ध्नां मतुब्विधीयते । नैता वयस्याः ; तर्हि 'तद्वानासां' इति न विवक्ष्यते । मूर्धशब्दवत्यो मूर्धन्वत्यः । 'अनो नुट्' 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । पूर्ववत्सवर्णदीर्घत्वम् । ताभिरुपधेया अप्युपचारेण गायत्र्यः मूर्धन्वत्यश्च । मूर्धानं प्रधानमित्यर्थः ॥
5 त्रिष्टुभ इति ॥ 'भुवो यज्ञस्य' इत्याद्या तिस्रो दक्षिणतः । इन्द्रियं वा इति । पूर्ववत्ताच्छब्द्यम् ॥
6 जगतीरिति ॥ 'जनस्य गोपाः' इत्याद्यास्तिस्रः पश्चात् ॥
7 अनुष्टुभ इति ॥ 'त्वां चित्रश्रवस्तम' इत्याद्यास्तिस्रः उत्तरतः । प्राणानामुत्सृष्ट्या इति । अनिरोधायेत्यर्थः ॥
8 बृहतीरित्यादि ॥ उक्तमुपधानं सम्प[समानपा]दानां गायत्रीत्रिष्टुप्जगत्यनुष्टुभाम् । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरित्येतानि विषुरूपाणि विषमरूपतया नानारूपाणि उपदध्यात् । तत्र मध्ये बृहतीस्तिस्र उपदधाति 'एना वः' इत्याद्याः बृहती द्वादशाक्षरा त्रयश्चाष्टाक्षरा इति विषमपादत्वम् । तत्र प्रथमातृतीये पथ्याबृहत्यौ । द्वितीया पुरस्ताद्बृहती चतुरक्षराभिक्रान्ता । अथ पुरस्तादुष्णिहस्तिस्रं उपदधाति 'अग्ने वाजस्य' इत्याद्याः । द्वाम्यामष्टाक्षराभ्यां द्वादशाक्षरेण चैकेनेति विषुरूपत्वम् । (निरोपि परोष्णिहः) । अथ पङ्क्तीस्तिस्रो दक्षिणत उपदधाति 'आ ते अग्ने' इत्याद्याः । सर्वाश्चैताः पङ्क्तयः यथोक्तं 'पथ्या पञ्चभिरष्टाक्षरैः' इति । अत्र पादसङ्ख्याविषमत्वात् विषुरूपत्वम् । अथाष्टाक्षरपङ्क्तीश्चतस्रः पश्चादुपदधाति 'अग्ने तमद्य' इत्याद्याः । ननु यत्र चत्वारः पञ्चकाः द्वौ भूयो वा तामक्षरपङ्क्तिमाहुः यत्र तु पञ्च पञ्चकाः यत्र वा पञ्चपञ्चकाः चतुष्कषट्कौ यत्र वा चत्वारः पञ्चकाः षट्कश्चैकः तां त्रिविधां पदपङ्क्तिमाहुः । अत्र चैतासां पदपङ्क्तित्वं पश्यामः । अत्र ब्रूमः - श्रुतिप्रामाणादक्षरपङ्क्तेः ल- क्षणान्तरं मृग्यम् । स्पष्टं विषुरूपत्वमासाम् । विषुरूपमस्येति । विदुषः फलम् । नारूपं हिरण्यरजतादि अस्य गृहे सर्वदा दृश्यते य एवं विद्वानेता उपदधतीति ॥
9 अतिच्छन्दसमित्यादि ॥ उत्तरतो मध्ये वा अतिच्छन्दसमुपदधाति 'अग्निं होतारं' इत्यष्टिं सप्तपदामेकाम् । गायत्र्यादिजगत्यन्तान्यतिछन्दांसि । सर्वाणीति । जगत्यन्तानां सर्वासां तत्रान्तर्भावात् । सर्वेभिरिति । 'बहुलं छन्दसि' इत्यैसभावः ॥
10 वर्ष्मेति ॥ उच्छ्रायवत्त्वात्ताच्छब्द्यम् । समानानां मध्ये यजमानमुच्छ्रितं करोति ॥
11 द्विपदा इति ॥ मध्ये उत्तरतो वा तिस्रः 'अग्ने त्वं नः' इत्याद्याः । सर्वाश्चैता विराजः विराड्जागतगायत्राभ्यामिति, द्वौ पादौ आसामिति बहुव्रीहौ 'सङ्ख्यासुपूर्वस्य' इति लोपे समासान्ते 'टाबृचि' इति टाप्, 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पद्दन्' इत्यन्तोदात्तत्वम् । द्विपदानामासामुपधानं द्विपदो यजमानस्य प्रतिष्ठित्यै भवतीति । 'उदेतौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
इति पञ्चमे तृतीये अष्टमोनुवाकः ॥