मु॑ख॒तो ध॑त्ते मूर्द्ध॒न्वती᳚र्भवन्ति मू॒र्द्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति त्रि॒ष्टुभ॒ उप॑ दधातीन्द्रि॒यं ॅवै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑द्ध्य॒तो ध॑त्ते॒ जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवः॑ प॒शूने॒वाव॑ रुन्धे ऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप् प्रा॒णाना॒मुथ्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः᳚ प॒ङ्क्तीर॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दाꣳ॒॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवः॑ प॒शवः॒ - [ ]
पदपाठः (Word-by-word)
मु॒ख॒तः । ध॒त्ते॒ । मू॒द्र्ध॒न्वती॒रिति॑ मूर्धन्न् - वतीः᳚ । भ॒व॒न्ति॒ । मू॒द्र्धान᳚म् । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । त्रि॒ष्टुभः॑ । उपेति॑ । द॒धा॒ति॒ । इ॒न्द्रि॒यम् । वै । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । ए॒व । म॒द्ध्य॒तः । ध॒त्ते॒ । जग॑तीः । उपेति॑ । द॒धा॒ति॒ । जाग॑ताः । वै । प॒शवः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । उपेति॑ । द॒धा॒ति॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । बृ॒ह॒तीः । उ॒ष्णिहाः᳚ । प॒ङ्क्तीः । अ॒क्षर॑पङ्क्ती॒रित्य॒क्षर॑ - प॒ङ्क्तीः॒ । इति॑ । विषु॑रूपा॒णीति॒ विषु॑ - रू॒पा॒णि॒ । छन्दाꣳ॑सि । उपेति॑ । द॒धा॒ति॒ । विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ । वै । प॒शवः॑ । प॒शवः॑ ।