अनुवाकः 1 TS 4.7.1

(A1)

(अ॒पा॒न - स्त॒नूश्च॑ मे॒ - ऽष्टाद॑श च)

अनुवाकः 1 - Complete Audio

TS 4.7.1 - स्वरानुगामी

0:00 0:00
PS1.1 अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वां॒ गिरः॑
PS1.2 ध्यु॒नैंर्वाजे॑भि॒रा ग॑तं
PS1.3 वाज॑श्च मे प्रस॒वश्च॑ मे॒
PS1.4 प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे
PS1.5 धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒
PS1.6 स्वर॑श्च मे॒ श्लोक॑श्च मे
PS1.7 श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒
PS1.8 ज्योति॑श्च मे॒ सुव॑श्च मे
PS1.9 प्रा॒णश्च॑ मे ऽपा॒न -
PS1.10 [ ]
PS2.1 -श्च॑ मे व्या॒नश्च॒ मे
PS2.2 ऽसु॑श्च मे चि॒त्तं च॑
PS2.3 म॒ आधी॑तं च मे॒
PS2.4 वाक्च॑ मे॒ मन॑श्च मे॒
PS2.5 चक्षु॑श्च मे॒ श्रोत्रं॑ च
PS2.6 मे॒ दक्ष॑श्च मे॒ बलं॑
PS2.7 च म॒ ओज॑श्च मे॒
PS2.8 सह॑श्च म॒ आयु॑श्च मे
PS2.9 ज॒रा च॑ म आ॒त्मा
PS2.10 च॑ मे त॒नूश्च॑ मे॒
PS2.11 ( ) शर्म॑ च
PS2.12 मे॒ वर्म॑ च॒ मे
PS2.13 ऽङ्गा॑नि च मे॒ ऽस्थानि॑
PS2.14 च मे॒ परूꣳ॑षि च
PS2.15 मे॒ शरी॑राणि च मे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.1.1 TS 4.7.1.1
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वां॒ गिरः॑ ।ध्यु॒नैंर्वाजे॑भि॒रा ग॑तं ॥ वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मे ऽपा॒न - [ ]
पदपाठः (Word-by-word)
अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । स॒जोष॒सेति॑ स - जोष॑सा । इ॒माः । व॒द्‌र्ध॒न्तु॒ । वा॒म् । गिरः॑ ॥ ध्यु॒म्नैः । वाजे॑भिः । एति॑ । ग॒त॒म् ॥ वाजः॑ । च॒ । मे॒ । प्र॒स॒व इति॑ प्र-स॒वः । च॒ । मे॒ । प्रय॑ति॒रिति॒ प्र-य॒तिः॒ । च॒ । मे॒ । प्रसि॑ति॒रिति॒ प्र-सि॒तिः॒ । च॒ । मे॒ । धी॒तिः । च॒ । मे॒ । क्रतुः॑ । च॒ । मे॒ । स्वरः॑ । च॒ । मे॒ । श्लोकः॑ । च॒ । मे॒ । श्रा॒वः । च॒ । मे॒ । श्रुतिः॑ । च॒ । मे॒ । ज्योतिः॑ । च॒ । मे॒ । सुवः॑ । च॒ । मे॒ । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । मे॒ । अ॒पा॒न इत्य॑प - अ॒नः ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.7.1.2 TS 4.7.1.2
-श्च॑ मे व्या॒नश्च॒ मे ऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ ( ) शर्म॑ च मे॒ वर्म॑ च॒ मे ऽङ्गा॑नि च मे॒ ऽस्थानि॑ च मे॒ परूꣳ॑षि च मे॒ शरी॑राणि च मे ॥
पदपाठः (Word-by-word)
च॒ । मे॒ । व्या॒न इति॑ वि-अ॒नः । च॒ । मे॒ । असुः॑ । च॒ । मे॒ । चि॒त्तम् । च॒ । मे॒ । आधी॑त॒मित्या - धी॒त॒म् । च॒ । मे॒ । वाक् । च॒ । मे॒ । मनः॑ । च॒ । मे॒ । चक्षुः॑ । च॒ । मे॒ । श्रोत्र᳚म् । च॒ । मे॒ । दक्षः॑ । च॒ । मे॒ । बल᳚म् । च॒ । मे॒ । ओजः॑ । च॒ । मे॒ । सहः॑ । च॒ । मे॒ । आयुः॑ । च॒ । मे॒ । ज॒रा । च॒ । मे॒ । आ॒त्मा । च॒ । मे॒ । त॒नूः । च॒ । मे॒ ( ) । शर्म॑ । च॒ । मे॒ । वर्म॑ । च॒ । मे॒ । अङ्गा॑नि । च॒ । मे॒ । अ॒स्थानि॑ । च॒ । मे॒ । परूꣳ॑षि । च॒ । मे॒ । शरी॑राणि । च॒ । मे॒ ॥
पदसंख्या: 68