अनुवाकः 3 TS 4.7.3

(A3)

( विश्वं॑ च॒ - शय॑न - म॒ष्टौ च॑ )

अनुवाकः 3 - Complete Audio

TS 4.7.3 - स्वरानुगामी

0:00 0:00
PS1.1 शं च॑ मे॒ मय॑श्च
PS1.2 मे प्रि॒यं च॑ मे
PS1.3 ऽनुका॒मश्च॑ मे॒ काम॑श्च मे
PS1.4 सौमन॒सश्च॑ मे भ॒द्रं च॑
PS1.5 मे॒ श्रेय॑श्च मे॒ वस्य॑श्च
PS1.6 मे॒ यश॑श्च मे॒ भग॑श्च
PS1.7 मे॒ द्रवि॑णं च मे
PS1.8 य॒न्ता च॑ मे ध॒र्ता
PS1.9 च॑ मे॒क्षेम॑श्च मे॒ धृति॑श्च
PS1.10 मे॒ विश्वं॑ च -
PS1.11 [ ]
PS2.1 मे॒ मह॑श्च मे सं॒ॅविच्च॑
PS2.2 मे॒ ज्ञात्रं॑ च मे॒
PS2.3 सूश्च॑ मे प्र॒सूश्च॑ मे॒
PS2.4 सीरं॑ च मे ल॒यश्च॑
PS2.5 म ऋ॒तं च॑ मे॒
PS2.6 ऽमृतं॑ च मेऽय॒क्ष्मं च॒
PS2.7 मे ऽना॑मयच्च मे जी॒वातु॑श्च
PS2.8 मे दीर्घायु॒त्वं च॑ मे
PS2.9 ऽनमि॒त्रं च॒ मे ऽभ॑यं
PS2.10 च मे सु॒गं च॑
PS2.11 मे॒ शय॑नं ( )
PS2.12 च मे सू॒षा च॑
PS2.13 मे सु॒दिनं॑ च मे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.3.1 TS 4.7.3.1
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च - [ ]
पदपाठः (Word-by-word)
शम् । च॒ । मे॒ । मयः॑ । च॒ । मे॒ । प्रि॒यम् । च॒ । मे॒ । अ॒नु॒का॒म इत्य॑नु - का॒मः । च॒ । मे॒ । कामः॑ । च॒ । मे॒ । सौ॒म॒न॒सः । च॒ । मे॒ । भ॒द्रम् । च॒ । मे॒ । श्रेयः॑ । च॒ । मे॒ । वस्यः॑ । च॒ । मे॒ । यशः॑ । च॒ । मे॒ । भगः॑ । च॒ । मे॒ । द्रवि॑णम् । च॒ । मे॒ । य॒न्ता । च॒ । मे॒ । ध॒र्ता । च॒ । मे॒ । क्षेमः॑ । च॒ । मे॒ । धृतिः॑ । च॒ । मे॒ । विश्व᳚म् । च॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.7.3.2 TS 4.7.3.2
मे॒ मह॑श्च मे सं॒ॅविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे ऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं ( ) च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥
पदपाठः (Word-by-word)
मे॒ । महः॑ । च॒ । मे॒ । सं॒ॅविदिति॑ सम्-वित् । च॒ । मे॒ । ज्ञात्र᳚म् । च॒ । मे॒ । सूः । च॒ । मे॒ । प्र॒सूरिति॑ प्र - सूः । च॒ । मे॒ । सीरं᳚ । च॒ । मे॒ । ल॒यः । च॒ । मे॒ । ऋ॒तम् । च॒ । मे॒ । अ॒मृत᳚म् । च॒ । मे॒ । अ॒य॒क्ष्मम् । च॒ । मे॒ । अना॑मयत् । च॒ । मे॒ । जी॒वातुः॑ । च॒ । मे॒ । दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु - त्वम् । च॒ । मे॒ । अ॒न॒मि॒त्रम् । च॒ । मे॒ । अभ॑यम् । च॒ । मे॒ । सु॒गमिति॑ सु-गम् । च॒ । मे॒ । शय॑नम् ( ) । च॒ । मे॒ । सू॒षेति॑ सु - उ॒षा । च॒ । मे॒ । सु॒दिन॒मिति॑ सु - दिन᳚म् । च॒ । मे॒ ॥
पदसंख्या: 58