पञ्चशत् 1 #
ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑ना स्त॒नुवं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒ स्त्वया-ऽद्ध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्ष मु॒रु गो॒पम॑स्तु॒ मह्यं॒ ॅवातः॑ पवतां॒ कामे॑ अ॒स्मिन्न् ॥मयि॑ दे॒वा द्रवि॑ण॒ माय॑जन्तां॒ मय्या॒ शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त॒ - [ ]
पदपाठः (Word-by-word)
मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ह॒वेष्विति॑ वि - ह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒नुव᳚म् । पु॒षे॒म॒ ॥ मह्य᳚म् । न॒म॒न्ता॒म् । प्र॒दिश॒ इति॑ प्र - दिशः॑ । चत॑स्रः । त्वया᳚ । अद्ध्य॑क्षे॒णेत्यधि॑ - अ॒क्षे॒ण॒ । पृत॑नाः । ज॒ये॒म॒ ॥ मम॑ । दे॒वाः । वि॒ह॒व इति॑ वि - ह॒वे । स॒न्तु॒ । सर्वे᳚ । इन्द्रा॑वन्त॒ इतीन्द्र॑ - व॒न्तः॒ । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ॥ मम॑ । अ॒न्तरि॑क्षम् । उ॒रु । गो॒पम् । अ॒स्तु॒ । मह्य᳚म् । वातः॑ । प॒व॒ता॒म् । कामे᳚ । अ॒स्मिन्न् ॥ मयि॑ । दे॒वाः । द्रवि॑णम् । एति॑ । य॒ज॒न्ता॒म् । मयि॑ । आ॒शीरित्या᳚ - शीः । अ॒स्तु॒ । मयि॑ । दे॒वहू॑ति॒रिति॑ दे॒व - हू॒तिः॒ ॥ दैव्या᳚ । होता॑रा । व॒नि॒ष॒न्त॒ ।