पञ्चशत् 1 #
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वै᳚र्दे॒वै-र्धन॑सातावि॒हाव॑तु ॥ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साऽऽ ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ ॅवाजो॑ अ॒स्मे ॥ वाज॑स्य प्रस॒वं दे॑वा॒ रथै᳚र्याता हिर॒ण्ययैः᳚ । अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र्म॒रुतः॒ सोम॑पीतये ॥ वाजे॑वाजे ऽवत वाजिनो नो॒ धने॑षु - [ ]
पदपाठः (Word-by-word)
वाजः॑ । नः॒ । स॒प्त । प्र॒दिश॒ इति॑ प्र - दिशः॑ । चत॑स्रः । वा॒ । प॒रा॒वत॒ इति॑ परा - वतः॑ ॥ वाजः॑ । नः॒ । विश्वैः᳚ । दे॒वैः । धन॑साता॒विति॒ धन॑ - सा॒तौ॒ । इ॒ह । अ॒व॒तु॒ ॥ विश्वे᳚ । अ॒द्य । म॒रुतः॑ । विश्वे᳚ । ऊ॒ती । विश्वे᳚ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । समि॑द्धा॒ इति॒ सं - इ॒द्धाः॒ ॥ विश्वे᳚ । नः॒ । दे॒वाः । अव॑सा । एति॑ । ग॒म॒न्तु॒ । विश्व᳚म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥ वाज॑स्य । प्र॒स॒वमिति॑ प्र - स॒वम् । दे॒वाः॒ । रथैः᳚ । या॒त॒ । हि॒र॒ण्ययैः᳚ ॥ अ॒ग्निः । इन्द्रः॑ । बृह॒स्पतिः॑ । म॒रुतः॑ । सोम॑पीतय॒ इति॒ सोम॑ - पी॒त॒ये॒ ॥ वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु ।