अनुवाकः 10 TS 4.7.10

(A10)

(ऋ॒ष॒भश्च॑ - चत्वारिꣳ॒॒शच्च॑)

अनुवाकः 10 - Complete Audio

TS 4.7.10 - स्वरानुगामी

0:00 0:00
PS1.1 गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒
PS1.2 त्र्यवि॑श्च मे त्र्य॒वी च॑
PS1.3 मे दित्य॒वाट् च॑ मे
PS1.4 दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च
PS1.5 मे पञ्चा॒वी च॑ मे
PS1.6 त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑
PS1.7 मे तुर्य॒वाट् च॑ मे
PS1.8 तुर्यौ॒ही च॑ मे पष्ठ॒वाच्
PS1.9 च॑ मे पष्ठौ॒ही च॑
PS1.10 म उ॒क्षा च॑ मे
PS1.11 व॒शा च॑ म ऋष॒भश्च
PS1.12 ॑- [ ]
PS2.1 मे वे॒हच्च॑ मे ऽन॒ड्वान्
PS2.2 च॑ मे धे॒नुश्च॑ म॒
PS2.3 आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑
PS2.4 कल्पता-मपा॒नो य॒ज्ञेन॑ कल्पतां ॅव्या॒नो
PS2.5 य॒ज्ञेन॑ कल्पतां॒ चक्षु॑-र्य॒ज्ञेन॑ कल्पताꣳ॒॒
PS2.6 श्रोत्रं॑ ॅय॒ज्ञेन॑ कल्पतां॒ मनो॑
PS2.7 य॒ज्ञेन॑ कल्पतां॒ ॅवाग् य॒ज्ञेन॑
PS2.8 कल्पता-मा॒त्मा य॒ज्ञेन॑ कल्पतां ॅय॒ज्ञो
PS2.9 य॒ज्ञेन॑ कल्पतां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.10.1 TS 4.7.10.1
गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च ॑- [ ]
पदपाठः (Word-by-word)
गर्भाः᳚ । च॒ । मे॒ । व॒थ्साः । च॒ । मे॒ । त्र्यवि॒रिति॑ त्रि - अविः॑ । च॒ । मे॒ । त्र्य॒वीति॑ त्रि - अ॒वी । च॒ । मे॒ । दि॒त्य॒वाडिति॑ दित्य - वाट् । च॒ । मे॒ । दि॒त्यौ॒ही । च॒ । मे॒ । पञ्चा॑वि॒रिति॒ पञ्च॑ - अ॒विः॒ । च॒ । मे॒ । प॒ञ्चा॒वीति॑ पञ्च-अ॒वी । च॒ । मे॒ । त्रि॒व॒थ्स इति॑ त्रि-व॒थ्सः । च॒ । मे॒ । त्रि॒व॒थ्सेति॑ त्रि - व॒थ्सा । च॒ । मे॒ । तु॒र्य॒वाडिति॑ तुर्य - वाट् । च॒ । मे॒ । तु॒र्यौ॒ही । च॒ । मे॒ । प॒ष्ठ॒वादिति॑ पष्ठ - वात् । च॒ । मे॒ । प॒ष्ठौ॒ही । च॒ । मे॒ । उ॒क्षा । च॒ । मे॒ । व॒शा । च॒ । मे॒ । ऋ॒ष॒भः । च॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.7.10.2 TS 4.7.10.2
मे वे॒हच्च॑ मे ऽन॒ड्वान् च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पता-मपा॒नो य॒ज्ञेन॑ कल्पतां ॅव्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑-र्य॒ज्ञेन॑ कल्पताꣳ॒॒ श्रोत्रं॑ ॅय॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ ॅवाग् य॒ज्ञेन॑ कल्पता-मा॒त्मा य॒ज्ञेन॑ कल्पतां ॅय॒ज्ञो य॒ज्ञेन॑ कल्पतां ॥
पदपाठः (Word-by-word)
म॒ । वे॒हत् । च॒ । मे॒ । अ॒न॒ड्वान् । च॒ । मे॒ । धे॒नुः । च॒ । मे॒ । आयुः॑ । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । प्रा॒ण इति॑ प्र - अ॒नः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । अ॒पा॒न इत्य॑प - अ॒नः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । व्या॒न इति॑ वि - अ॒नः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । चक्षुः॑ । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । श्रोत्र᳚म् । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । मनः॑ । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । वाक् । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । आ॒त्मा । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । य॒ज्ञ्ः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् ॥
पदसंख्या: 40