पञ्चशत् 1 #
ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मे ऽभं॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च - [ ]
पदपाठः (Word-by-word)
ज्यैष्ठ्य᳚म् । च॒ । मे॒ । आधि॑पत्य॒मित्याधि॑-प॒त्य॒म् । च॒ । मे॒ । म॒न्युः । च॒ । मे॒ । भामः॑ । च॒ । मे॒ । अमः॑ । च॒ । मे॒ । अभंः॑ । च॒ । मे॒ । जे॒मा । च॒ । मे॒ । म॒हि॒मा । च॒ । मे॒ । व॒रि॒मा । च॒ । मे॒ । प्र॒थि॒मा । च॒ । मे॒ । व॒र्ष्मा । च॒ । मे॒ । द्रा॒घु॒या । च॒ । मे॒ । वृ॒द्धम् । च॒ । मे॒ । वृद्धिः॑ । च॒ । मे॒ । स॒त्यम् । च॒ । मे॒ । श्र॒द्धेति॑ श्रत् - धा । च॒ । मे॒ । जग॑त् । च॒ ।