अनुवाकः 5 TS 4.7.5

(A5)

(कृ॒ष्ट॒प॒च्यं चा॒ - ऽष्टाच॑त्वारिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 4.7.5 - स्वरानुगामी

0:00 0:00
PS1.1 अश्मा॑ च मे॒ मृत्ति॑का
PS1.2 च मे गि॒रय॑श्च मे॒
PS1.3 पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒
PS1.4 वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒
PS1.5 मे ऽय॑श्च मे॒ सीसं॑
PS1.6 च मे॒ त्रपु॑श्च मे
PS1.7 श्या॒मं च॑ मे लो॒हं
PS1.8 च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च
PS1.9 मेवी॒रुध॑श्च म॒ ओष॑धयश्च मे
PS1.10 कृष्टप॒च्यं च॑ - [
PS1.11 ]
PS2.1 मे ऽकृष्टप॒च्यं च॑ मे
PS2.2 ग्रा॒यांश्च॑ मे प॒शव॑ आर॒ण्याश्च॑
PS2.3 य॒ज्ञेन॑ कल्पन्तां ॅवि॒त्तं च॑
PS2.4 मे॒ वित्ति॑श्च मे भू॒तं
PS2.5 च॑ मे॒ भूति॑श्च मे॒
PS2.6 वसु॑ च मे वस॒तिश्च॑
PS2.7 मे॒ कर्म॑ च मे॒
PS2.8 शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च
PS2.9 म॒ इति॑श्च मे॒ गति॑श्च
PS2.10 मे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.5.1 TS 4.7.5.1
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मेवी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ - [ ]
पदपाठः (Word-by-word)
अश्मा᳚ । च॒ । मे॒ । मृत्ति॑का । च॒ । मे॒ । गि॒रयः॑ । च॒ । मे॒ । पर्व॑ताः । च॒ । मे॒ । सिक॑ताः । च॒ । मे॒ । वन॒स्पत॑यः । च॒ । मे॒ । हिर॑ण्यम् । च॒ । मे॒ । अयः॑ । च॒ । मे॒ । सीस᳚म् । च॒ । मे॒ । त्रपु॑ । च॒ । मे॒ । श्या॒मम् । च॒ । मे॒ । लो॒हम् । च॒ । मे॒ । अ॒ग्निः । च॒ । मे॒ । आपः॑ । च॒ । मे॒ । वी॒रुधः॑ । च॒ । मे॒ । ओष॑धयः । च॒ । मे॒ । कृ॒ष्ट॒प॒च्यमिति॑ कृष्ट - प॒च्यम् । च॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.7.5.2 TS 4.7.5.2
मे ऽकृष्टप॒च्यं च॑ मे ग्रा॒यांश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां ॅवि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥
पदपाठः (Word-by-word)
मे॒ । अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् । च॒ । मे॒ । ग्रा॒म्याः । च॒ । मे॒ । प॒शवः॑ । आ॒र॒ण्याः । च॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । वि॒त्तम् । च॒ । मे॒ । वित्तिः॑ । च॒ । मे॒ । भू॒तम् । च॒ । मे॒ । भूतिः॑ । च॒ । मे॒ । वसु॑ । च॒ । मे॒ । व॒स॒तिः । च॒ । मे॒ । कर्म॑ । च॒ । मे॒ । शक्तिः॑ । च॒ । मे॒ । अर्थः॑ । च॒ । मे॒ । एमः॑ । च॒ । मे॒ । इतिः॑ । च॒ । मे॒ । गतिः॑ । च॒ । मे॒ ॥
पदसंख्या: 48