अनुवाकः 15 TS 4.7.15

(A15)

(गन्ता॑ - दू॒षय॒न्थ् स्तौमि॒ - ययोः॒ - शर्द्धोऽ - नु॑मति॒रनु॑ - च॒न - चतु॑स्त्रिꣳशच्च)

अनुवाकः 15 - Complete Audio

TS 4.7.15 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं
PS1.2 पाञ्च॑जन्यं ब॒हवः॑ समि॒न्धते᳚
PS1.3 विश्व॑स्यां ॅवि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒
PS1.4 स नो॑ मुञ्च॒त्वꣳ ह॑सः
PS1.5 यस्ये॒दं प्रा॒णन्नि॑मि॒षद् यदेज॑ति॒ यस्य॑
PS1.6 जा॒तं जन॑मानं च॒ केव॑लं
PS1.7 स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स
PS1.8 नो॑ मुञ्च॒त्वꣳ ह॑सः
PS1.9 इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो
PS1.10 वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑
PS1.11 यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒
PS1.12 गन्ता॒ - [ ]
PS2.1 स नो॑ मुञ्च॒त्वꣳ ह॑सः
PS2.2 यः सं॑ग्रा॒मं नय॑ति॒ संॅ
PS2.3 ॅव॒शी यु॒धे यः पु॒ष्टानि॑
PS2.4 सꣳसृ॒जति॑ त्र॒याणि॑
PS2.5 स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स
PS2.6 नो॑ मुञ्च॒त्वꣳ ह॑सः
PS2.7 म॒न्वे वां᳚ मित्रा वरुणा॒
PS2.8 तस्य॑ वित्तꣳ॒॒ सत्यौ॑जसा दृꣳहणा॒
PS2.9 यं नु॒देथे᳚
PS2.10 या राजा॑नꣳ स॒रथं॑ ॅया॒थ
PS2.11 उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः
PS2.12 यो वाꣳ॒॒ रथ॑ ऋ॒जुर॑श्मिः
PS2.13 स॒त्यध॑र्मा॒ मिथु॒ श्चर॑न्त-मुप॒याति॑ दू॒षयन्न्॑
PS2.14 स्तौमि॑ - [ ]
PS3.1 मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ
PS3.2 नो॑ मुञ्चत॒माग॑सः
PS3.3 वा॒योः स॑वि॒तु र्वि॒दथा॑नि मन्महे॒
PS3.4 यावा᳚त्म॒न्वद्-बि॑भृ॒तो यौ च॒ रक्ष॑तः
PS3.5 यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ
PS3.6 नो॑ मुञ्चत॒माग॑सः
PS3.7 उप॒ श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र्द्धर्मे॑ अस्थिरन्न्
PS3.8 स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो
PS3.9 जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः
PS3.10 र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒
PS3.11 गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚
PS3.12 ययो᳚ -[ ]
PS4.1 -र्वां देवौ दे॒वेष्व-नि॑शित॒-मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः
PS4.2 यदया॑तं ॅवॅह॒तुꣳ सू॒र्याया᳚-स्त्रिच॒क्रेण॑ सꣳ॒॒ सद॑मि॒च्छमा॑नौ
PS4.3 स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो
PS4.4 जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः
PS4.5 म॒रुतां᳚ मन्वे॒ अधि॑नो ब्रुवन्तु॒
PS4.6 प्रेमां ॅवाचं॒ ॅविश्वा॑ मवन्तु॒
PS4.7 विश्वे᳚
PS4.8 आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते
PS4.9 नो॑ मुञ्च॒न्त्वेन॑सः
PS4.10 ति॒ग्ममायु॑धं ॅवीडि॒तꣳ सह॑स्वद् दि॒व्यꣳ
PS4.11 शर्द्धः॒ - [ ]
PS5.1 पृत॑नासु जि॒ष्णु
PS5.2 स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो
PS5.3 जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः
PS5.4 दे॒वानां᳚ मन्वे॒ अधि॑ नो
PS5.5 ब्रुवन्तु॒ प्रेमां ॅवाचं॒ ॅविश्वा॑मवन्तु॒
PS5.6 विश्वे᳚
PS5.7 आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते
PS5.8 नो॑ मुञ्च॒न्त्वेन॑सः
PS5.9 यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न
PS5.10 स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो
PS5.11 जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः
PS5.12 अनु॑नो॒ऽद्यानु॑मति॒ रन्वि - [ ]
PS6.1 द॑नुमते॒ त्वं ॅवै᳚श्वान॒रो न॑
PS6.2 ऊ॒त्यापृ॒ष्टो दि॒वि>ये अप्र॑थेता॒-ममि॑तेभि॒ रोजो॑भि॒
PS6.3 र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ ॅवसू॑नां
PS6.4 स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो
PS6.5 जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ
PS6.6 ह॑सः
PS6.7 उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒
PS6.8 क्षेत्र॑स्य पत्नी॒ अधि॑ नो
PS6.9 ब्रूयातं
PS6.10 स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो
PS6.11 जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ
PS6.12 ह॑सः
PS6.13 यत् ते॑ व॒यं पु॑रुष॒त्रा
PS6.14 य॑वि॒ष्ठा वि॑द्वाꣳसश्चकृ॒मा कच्च॒ ना
PS6.15 - [ ]
PS7.1 ऽऽ*गः॑
PS7.2 कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि
PS7.3 शिश्रथो॒ विष्व॑गग्ने
PS7.4 यथा॑ ह॒ तद् व॑सवो
PS7.5 गौ॒र्यं॑ चित् प॒दिषि॒ता ममु॑ञ्चता
PS7.6 यजत्राः
PS7.7 ए॒वा त्वम॒स्मत् प्रमु॑ञ्चा॒ व्यꣳहः॒
PS7.8 प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.15.1 TS 4.7.15.1
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हवः॑ समि॒न्धते᳚ । विश्व॑स्यां ॅवि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ यस्ये॒दं प्रा॒णन्नि॑मि॒षद् यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लं । स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ - [ ]
पदपाठः (Word-by-word)
अ॒ग्नेः । म॒न्वे॒ । प्र॒थ॒मस्य॑ । प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ । यम् । पाञ्च॑जन्य॒मिति॒ पाञ्च॑ - ज॒न्य॒म् । ब॒हवः॑ । स॒मि॒न्धत॒ इति॑ सम् - इ॒न्धते᳚ ॥ विश्व॑स्याम् । वि॒शि । प्र॒वि॒वि॒शि॒वाꣳस॒मिति॑ प्र - वि॒वि॒शि॒वाꣳस᳚म् । ई॒म॒हे॒ । सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ यस्य॑ । इ॒दम् । प्रा॒णदिति॑ प्र - अ॒नत् । नि॒मि॒षदिति॑ नि - मि॒षत् । यत् । एज॑ति । यस्य॑ । जा॒तम् । जन॑मानम् । च॒ । केव॑लम् ॥ स्तौमि॑ । अ॒ग्निम् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ इन्द्र॑स्य । म॒न्ये॒ । प्र॒थ॒मस्य॑ । प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ । वृ॒त्र॒घ्न इति॑ वृत्र-घ्नः । स्तोमाः᳚ । उपेति॑ । माम् । उ॒पागु॒रित्यु॑प - आगुः॑ ॥ यः । दा॒शुषः॑ । सु॒कृत॒ इति॑ सु - कृतः॑ । हव᳚म् । उपेति॑ । गन्ता᳚ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.7.15.2 TS 4.7.15.2
स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ यः सं॑ग्रा॒मं नय॑ति॒ संॅ ॅव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥म॒न्वे वां᳚ मित्रा वरुणा॒ तस्य॑ वित्तꣳ॒॒ सत्यौ॑जसा दृꣳहणा॒ यं नु॒देथे᳚ । या राजा॑नꣳ स॒रथं॑ ॅया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ॥ यो वाꣳ॒॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒ श्चर॑न्त-मुप॒याति॑ दू॒षयन्न्॑ । स्तौमि॑ - [ ]
पदपाठः (Word-by-word)
सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ यः । स॒ग्रां॒ममिति॑ सम् - ग्रा॒मम् । नय॑ति । समिति॑ । व॒शी । यु॒धे । यः । पु॒ष्टानि॑ । सꣳ॒॒सृ॒जतीति॑ सं-सृ॒जति॑ । त्र॒याणि॑ ॥ स्तौमि॑ । इन्द्र᳚म् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ म॒न्वे । वा॒म् । मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । तस्य॑ । वि॒त्त॒म् । सत्यौ॑ज॒सेति॒ सत्य॑ - ओ॒ज॒सा॒ । दृꣳ॒॒ह॒णा॒ । यम् । नु॒देथे॒ इति॑ ॥ या । राजा॑नम् । स॒रथ॒मिति॑ स-रथ᳚म् । या॒थः । उ॒ग्रा॒ । ता । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ यः । वा॒म् । रथः॑ । ऋ॒जुर॑श्मि॒रित्यृ॒जु - र॒श्मिः॒ । स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । मिथु॑ । चर॑न्तम् । उ॒प॒यातीत्यु॑प - याति॑ । दू॒षयन्न्॑ ॥ स्तौमि॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.7.15.3 TS 4.7.15.3
मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥वा॒योः स॑वि॒तु र्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्-बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥उप॒ श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र्द्धर्मे॑ अस्थिरन्न् ।स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚ -[ ]
पदपाठः (Word-by-word)
मि॒त्रावरु॒णेति॑ मि॒त्रा - वरु॑णा । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ वा॒योः । स॒वि॒तुः । वि॒दथा॑नि । म॒न्म॒हे॒ । यौ । आ॒त्म॒न्वदित्या᳚त्मन्न् - वत् । बि॒भृ॒तः । यौ । च॒ । रक्ष॑तः ॥ यौ । विश्व॑स्य । प॒रि॒भू इति॑ परि - भूः । ब॒भू॒वतुः॑ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ उपेति॑ । श्रेष्ठाः᳚ । नः॒ । आ॒शिष॒ इत्या᳚ - शिषः॑ । दे॒वयोः᳚ । धर्मे᳚ । अ॒स्थि॒र॒न्न् ॥ स्तौमि॑ । वा॒युम् । स॒वि॒तार᳚म् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ र॒थीत॑मा॒विति॑ र॒थि - त॒मौ॒ । र॒थी॒नाम् । अ॒ह्वे॒ । ऊ॒तये᳚ । शुभं᳚ । गमि॑ष्ठौ । सु॒यमे॑भि॒रिति॑ सु - यमे॑भिः । अश्वैः᳚ ॥ ययोः᳚ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.7.15.4 TS 4.7.15.4
-र्वां देवौ दे॒वेष्व-नि॑शित॒-मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥यदया॑तं ॅवॅह॒तुꣳ सू॒र्याया᳚-स्त्रिच॒क्रेण॑ सꣳ॒॒ सद॑मि॒च्छमा॑नौ ।स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥म॒रुतां᳚ मन्वे॒ अधि॑नो ब्रुवन्तु॒ प्रेमां ॅवाचं॒ ॅविश्वा॑ मवन्तु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ति॒ग्ममायु॑धं ॅवीडि॒तꣳ सह॑स्वद् दि॒व्यꣳ शर्द्धः॒ - [ ]
पदपाठः (Word-by-word)
वा॒म् । दे॒वौ॒ । दे॒वेषु॑ । अनि॑शित॒मित्यनि॑-शि॒त॒म् । ओजः॑ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ यत् । अया॑तम् । व॒ह॒तुम् । सू॒र्यायाः᳚ । त्रि॒च॒क्रेणेति॑ त्रि - च॒क्रेण॑ । सꣳ॒॒सद॒मिति॑ सम् - सद᳚म् । इ॒च्छमा॑नौ ॥ स्तौमि॑ । दे॒वौ । अ॒श्विनौ᳚ । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ म॒रुता᳚म् । म॒न्वे॒ । अधीति॑ । नः॒ । ब्रु॒व॒न्तु॒ । प्रेति॑ । इ॒माम् । वाच᳚म् । विश्वा᳚म् । अ॒व॒न्तु॒ । विश्वे᳚ ॥ आ॒शून् । हु॒वे॒ । सु॒यमा॒निति॑ सु - यमान्॑ । ऊ॒तये᳚ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ ति॒ग्मम् । आयु॑धम् । वी॒डि॒तम् । सह॑स्वत् । दि॒व्यम् । शर्द्धः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.7.15.5 TS 4.7.15.5
पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां ॅवाचं॒ ॅविश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न ।स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥अनु॑नो॒ऽद्यानु॑मति॒ रन्वि - [ ]
पदपाठः (Word-by-word)
पृत॑नासु । जि॒ष्णु ॥ स्तौमि॑ । दे॒वान् । म॒रुतः॑ । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ दे॒वाना᳚म् । म॒न्वे॒ । अधीति॑ । नः॒ । ब्रु॒व॒न्तु॒ । प्रेति॑ । इ॒माम् । वाच᳚म् । विश्वा᳚म् । अ॒व॒न्तु॒ । विश्वे᳚ ॥ आ॒शून् । हु॒वे॒ । सु॒यमा॒निति॑ सु - यमान्॑ । ऊ॒तये᳚ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ यत् । इ॒दम् । मा॒ । अ॒भि॒शोच॒तीत्य॑भि-शोच॑ति । पौरु॑षेयेण । दैव्ये॑न ॥ स्तौमि॑ । विश्वान्॑ । दे॒वान् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ अन्विति॑ । नः॒ । अ॒द्य । अनु॑मति॒रियनु॑ - म॒तिः॒ । अन्विति॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 4.7.15.6 TS 4.7.15.6
द॑नुमते॒ त्वं ॅवै᳚श्वान॒रो न॑ ऊ॒त्यापृ॒ष्टो दि॒वि>ये अप्र॑थेता॒-ममि॑तेभि॒ रोजो॑भि॒ र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ ॅवसू॑नां ।स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ ह॑सः ॥उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातं ।स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ ह॑सः ॥यत् ते॑ व॒यं पु॑रुष॒त्रा य॑वि॒ष्ठा वि॑द्वाꣳसश्चकृ॒मा कच्च॒ ना - [ ]
पदपाठः (Word-by-word)
इत् । अ॒नु॒म॒त॒ इत्य॑नु - म॒ते॒ । त्वम् । वै॒श्वा॒न॒रः । नः॒ । ऊ॒त्या । पृ॒ष्टः । दि॒वि ॥ ये इति॑ । अप्र॑थेताम् । अमि॑तेभिः । ओजो॑भि॒रित्योजः॑ - भिः॒ । ये इति॑ । प्र॒ति॒ष्ठे इति॑ प्रति - स्थे । अभ॑वताम् । वसू॑नाम् ॥ स्तौमि॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते इति॑ । नः॒ । मु॒ञ्च॒त॒म् । अꣳह॑सः ॥ उर्वी॒ इति॑ । रो॒द॒सी॒ इति॑ । वरि॑वः । कृ॒णो॒त॒म् । क्षेत्र॑स्य । प॒त्नी॒ इति॑ । अधीति॑ । नः॒ । ब्रू॒या॒त॒म् ॥ स्तौमि॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते इति॑ । नः॒ । मु॒ञ्च॒त॒म् । अꣳह॑सः ॥ यत् । ते॒ । व॒यम् । पु॒रु॒ष॒त्रेति॑ पुरुष-त्रा । य॒वि॒ष्ठ॒ । अवि॑द्वाꣳसः । च॒कृ॒म । कत् । च॒न ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 4.7.15.7 TS 4.7.15.7
ऽऽ*गः॑ । कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने ॥यथा॑ ह॒ तद् व॑सवो गौ॒र्यं॑ चित् प॒दिषि॒ता ममु॑ञ्चता यजत्राः ।ए॒वा त्वम॒स्मत् प्रमु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥
पदपाठः (Word-by-word)
आगः॑ ॥ कृ॒धि । स्विति॑ । अ॒स्मान् । अदि॑तेः । अना॑गाः । वीति॑ । एनाꣳ॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥ यथा᳚ । ह॒ । तत् । व॒स॒वः॒ । गौ॒र्य᳚म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ॥ ए॒वा । त्वम् । अ॒स्मत् । प्रेति॑ । मु॒ञ्च॒ । वीति॑ । अꣳहः॑ । प्रेति॑ । अ॒ता॒रि॒ । अ॒ग्ने॒ । प्र॒त॒रामिति॑ प्र - त॒राम् । नः॒ । आयुः॑ ॥(अ॒ग्नेर्म॑न्वे॒ - यस्ये॒द- मिन्द्र॑स्य॒ - यः सं॑ ग्रा॒ममिन्द्रꣳ॒॒ - स नो॑ मुञ्च॒त्वꣳ ह॑सः । म॒न्वे वा॒न्ता नो॑ मुञ्चत॒माग॑सः । यो वां᳚ - वा॒यो- रुप॑ - र॒थीत॑मौ॒ - यदया॑त-म॒श्विनौ॒ - तौ नो॑ मुञ्चत॒माग॑सः । म॒रुता᳚न्- ति॒ग्मं - म॒रुतो॑ - दे॒वानां॒ - ॅयदि॒दं ॅविश्वा॒न् - ते नो॑ मुञ्च॒न्त्वेन॑सः । अनु॑ न॒ - उर्वी॒ - द्यावा॑पृथि॒वी - ते नो॑ मुञ्चत॒मꣳह॑सो॒ यत्तै᳚ । च॒तुरꣳ ह॑सः॒ षाडाग॑सश्च॒तुरेन॑सो॒ द्विरꣳह॑सः ।
पदसंख्या: 34