पञ्चशत् 1 #
इ॒द्ध्मश्च॑ मे ब॒र्॒.हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च मउपर॒वाश्च॑ मे ऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी᳚द्ध्रं च मे हवि॒र्द्धानं॑ च मे गृ॒हाश्च॑ ( ) मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥
पदपाठः (Word-by-word)
इ॒द्ध्मः । च॒ । मे॒ । ब॒र्॒.हिः । च॒ । मे॒ । वेदिः॑ । च॒ । मे॒ । धिष्णि॑याः । च॒ । मे॒ । स्रुचः॑ । च॒ । मे॒ । च॒म॒साः । च॒ । मे॒ । ग्रावा॑णः । च॒ । मे॒ । स्वर॑वः । च॒ । मे॒ । उ॒प॒र॒वा इत्यु॑प - र॒वाः । च॒ । मे॒ । अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । च॒ । मे॒ । द्रो॒ण॒क॒ल॒श इति॑ द्रोण-क॒ल॒शः । च॒ । मे॒ । वा॒य॒व्या॑नि । च॒ । मे॒ । पू॒त॒भृदिति॑ पूत - भृत् । च॒ । मे॒ । आ॒ध॒व॒नीय॒ इत्या᳚ - ध॒व॒नीयः॑ । च॒ । मे॒ । आग्नी᳚द्ध्र॒मित्याग्नि॑-इ॒द्ध्र॒म् । च॒ । मे॒ । ह॒वि॒द्र्धान॒मिति॑ हविः - धान᳚म् । च॒ । मे॒ । गृ॒हाः । च॒ ( ) । मे॒ । सदः॑ । च॒ । मे॒ । पु॒रो॒डाशाः᳚ । च॒ । मे॒ । प॒च॒ताः । च॒ । मे॒ । अ॒व॒भृ॒थ इत्य॑व - भृ॒थः । च॒ । मे॒ । स्व॒गा॒का॒र इति॑ स्वगा - का॒रः । च॒ । मे॒ ॥