पञ्चशत् 1 #
अ॒ग्निं ॅयु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यꣳ सु॑प॒र्णं ॅवय॑सा बृ॒हन्तं᳚ । तेन॑ व॒यं प॑तेम ब्र॒द्ध्नस्य॑ वि॒ष्टपꣳ॒॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्याꣳ॒॒ रक्षाꣳ॑-स्यप॒हꣳ-स्य॑ग्ने । ताभ्यां᳚ पतेम सु॒कृता॑मु लो॒कं ॅयत्रर्.ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्यु-र्म॒हान्थ् स॒धस्थे᳚ ध्रु॒व - [ ]
पदपाठः (Word-by-word)
अ॒ग्निम् । यु॒न॒ज्मि॒ । शव॑सा । घृ॒तेन॑ । दि॒व्यम् । सु॒प॒र्णमिति॑ सु - प॒र्णम् । वय॑सा । बृ॒हन्त᳚म् ॥ तेन॑ । व॒यम् । प॒ते॒म॒ । ब्र॒द्ध्नस्य॑ । वि॒ष्टप᳚म् । सुवः॑ । रुहा॑णाः । अधीति॑ । नाके᳚ । उ॒त्त॒म इत्यु॑त् - त॒मे ॥ इ॒मौ । ते॒ । प॒क्षौ । अ॒जरौ᳚ । प॒त॒त्रिणः॑ । याभ्या᳚म् । रक्षाꣳ॑सि । अ॒प॒हꣳसीत्य॑प - हꣳसि॑ । अ॒ग्ने॒ ॥ ताभ्या᳚म् । प॒ते॒म॒ । सु॒कृता॒मिति॑ सु - कृता᳚म् । उ॒ । लो॒कम् । यत्र॑ । ऋष॑यः । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । ये । पु॒रा॒णाः ॥ चित् । अ॒सि॒ । स॒मु॒द्रयो॑नि॒रिति॑ समु॒द्र - यो॒निः॒ । इन्दुः॑ । दक्षः॑ । श्ये॒नः । ऋ॒तावेत्यृ॒त - वा॒ ॥ हिर॑ण्यपक्ष॒ इति॒ हिर॑ण्य - प॒क्षः॒ । श॒कु॒नः । भु॒र॒ण्युः । म॒हान् । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । ध्रु॒वः ।