पञ्चशत् 1 #
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒- मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा ( ) च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे ऽहोरा॒त्रयो᳚ र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेतां ॥
पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । मे॒ । घ॒र्मः । च॒ । मे॒ । अ॒र्कः । च॒ । मे॒ । सूर्यः॑ । च॒ । मे॒ । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । मे॒ । अ॒श्व॒मे॒ध इत्य॑श्व-मे॒धः । च॒ । मे॒ । पृ॒थि॒वी । च॒ । मे॒ । अदि॑तिः । च॒ । मे॒ । दितिः॑ । च॒ । मे॒ । द्यौः । च॒ । मे॒ । शक्व॑रीः । अ॒ङ्गुल॑यः । दिशः॑ । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । ऋक् । च॒ । मे॒ । साम॑ । च॒ । मे॒ । स्तोमः॑ । च॒ । मे॒ । यजुः॑ । च॒ । मे॒ । दी॒क्षा ( ) । च॒ । मे॒ । तपः॑ । च॒ । मे॒ । ऋ॒तुः । च॒ । मे॒ । व्र॒तम् । च॒ । मे॒ । अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । वृ॒ष्ट्या । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्पे॒ता॒म् ॥