अनुवाकः 6 TS 4.7.6

(A6)

(त्वष्टा॑ च॒ - द्यौश्च॑ म॒ - एक॑विꣳशतिश्च)

अनुवाकः 6 - Complete Audio

TS 4.7.6 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒
PS1.2 सोम॑श्च म॒ इन्द्र॑श्च मे
PS1.3 सवि॒ता च॑ म॒ इन्द्र॑श्च
PS1.4 मे॒ सर॑स्वती च म॒
PS1.5 इन्द्र॑श्च मे पू॒षा च॑
PS1.6 म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च
PS1.7 म॒ इन्द्र॑श्च मे मि॒त्रश्च॑
PS1.8 म॒ इन्द्र॑श्च मे॒ वरु॑णश्च
PS1.9 म॒ इन्द्र॑श्च मे॒ त्वष्टा॑
PS1.10 च - [ ]
PS2.1 म॒ इन्द्र॑श्च मे धा॒ता
PS2.2 च॑ म॒ इन्द्र॑श्च मे॒
PS2.3 विष्णु॑श्च म॒ इन्द्र॑श्च मे॒
PS2.4 ऽश्विनौ॑ च म॒ इन्द्र॑श्च
PS2.5 मे म॒रुत॑श्च म॒ इन्द्र॑श्च
PS2.6 मे॒ विश्वे॑ च मे
PS2.7 दे॒वा इन्द्र॑श्च मे पृथि॒वी
PS2.8 च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं
PS2.9 च म॒ इन्द्र॑श्च मे॒
PS2.10 द्यौश्च॑ म॒ ( )
PS2.11 इन्द्र॑श्च मे॒ दिश॑श्च म॒
PS2.12 इन्द्र॑श्च मे मू॒र्द्धा च॑
PS2.13 म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च
PS2.14 म॒ इन्द्र॑श्च मे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.6.1 TS 4.7.6.1
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । सोमः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । स॒वि॒ता । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । सर॑स्वती । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । पू॒षा । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । बृह॒स्पतिः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । मि॒त्रः । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । वरु॑णः । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । त्वष्टा᳚ । च॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.7.6.2 TS 4.7.6.2
म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ ( ) इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्द्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥
पदपाठः (Word-by-word)
मे॒ । इन्द्रः॑ । च॒ । मे॒ । धा॒ता । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । विष्णुः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । अ॒श्विनौ᳚ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । म॒रुतः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । विश्वे᳚ । च॒ । मे॒ । दे॒वाः । इन्द्रः॑ । च॒ । मे॒ । पृ॒थि॒वी । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । अ॒न्तरि॑क्षम् । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । द्यौः । च॒ । मे॒ ( ) । इन्द्रः॑ । च॒ । मे॒ । दिशः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । मू॒र्द्धा । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ ॥
पदसंख्या: 71