पञ्चशत् 1 #
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तविꣳ॑शतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च- [ ]
पदपाठः (Word-by-word)
एका᳚ । च॒ । मे॒ । ति॒स्रः । च॒ । मे॒ । पञ्च॑ । च॒ । मे॒ । स॒प्त । च॒ । मे॒ । नव॑ । च॒ । मे॒ । एका॑दश । च॒ । मे॒ । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । च॒ । मे॒ । पञ्च॑द॒शेति॒ पञ्च॑-द॒श॒ । च॒ । मे॒ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । च॒ । मे॒ । नव॑द॒शेति॒ नव॑ - द॒श॒ । च॒ । मे॒ । एक॑विꣳशति॒रित्येक॑ - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । त्रयो॑विꣳशति॒रिति॒ त्रयः॑-विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । पञ्च॑विꣳशति॒रिति॒ पञ्च॑-विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । स॒प्तविꣳ॑शति॒रिति॑ स॒प्त -विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । नव॑विꣳशति॒रिति॒ नव॑ - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । एक॑त्रिꣳश॒दित्येक॑ - त्रिꣳ॒॒श॒त् । च॒ । मे॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । च॒ ।