TB 3.4.1

1 पञ्चाशत्

3.4.1 अनुवाकं 1 - पुरुषमेधः

3.4.1.1
ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्राय॑ राज॒न्य᳚म् । म॒रुद्भ्यो॒ वैश्य᳚म् । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हण᳚म् । पा॒प्मने᳚ क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् । कामा॑य पुꣳश्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ।