TB 3.4.8

1 पञ्चाशत्

3.4.8 अनुवाकं 8 –

3.4.8.1
भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तार᳚म् । ब्र॒द्ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तार᳚म् । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तार᳚म् । सर्वे᳚भ्यो लो॒केभ्य॑ उपसे॒क्तार᳚म् । अव॑र्त्यै व॒धायो॑पमन्थि॒तार᳚म् । सुव॒र्गाय॑ लो॒काय॑ भाग॒दुघ᳚म् । वर्.षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार᳚म् ।