TB 3.4.10

1 पञ्चाशत्

3.4.10 अनुवाकं 10 –

3.4.10.1
म॒न्यवे॑ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्यां᳚ त्रि॒स्थिन᳚म् । योगा॑य यो॒क्तार᳚म् । क्षेमा॑य विमो॒क्तार᳚म् । वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् । निर्.ऋ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ।