अर्मे᳚भ्यो हस्ति॒पम् । ज॒वाया᳚श्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑सेऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाश᳚म् । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अद्ध्य॑क्षायानुक्ष॒त्तार᳚म् ।
TB 3.4.9
1 पञ्चाशत्
॥
3.4.9 अनुवाकं 9 –