TB 3.4.6

1 पञ्चाशत्

3.4.6 अनुवाकं 6 –

3.4.6.1
उ॒थ्सा॒देभ्यः॑ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्यः स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । स॒ज्ञांना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सद᳚म् । आ॒शि॒क्षायै᳚ प्र॒श्निन᳚म् । उ॒प॒शि॒क्षाया॑ अभिप्र॒श्निन᳚म् । म॒र्यादा॑यै प्रश्नविवा॒कम् ।