TB 3.4.18

1 पञ्चाशत्

3.4.18 अनुवाकं 18 –

3.4.18.1
वा॒चे पुरु॑ष॒माल॑भते । प्रा॒णम॑पा॒नं ॅव्या॒नमु॑दा॒नꣳ स॑मा॒नं तान्. वा॒यवे᳚ । सूर्या॑य॒ चक्षु॒राल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्म्यः श्रोत्र᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ।