सरो᳚भ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाश᳚म् । उ॒प॒स्थाव॑रीभ्यो॒ बैन्द᳚म् । न॒ड्व॒लाभ्यः॑ शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वने᳚भ्यः॒ पर्ण॑कम् । गुहा᳚भ्यः॒ किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्यः॒ किं पू॑रुषम् ।
TB 3.4.12
1 पञ्चाशत्
॥
3.4.12 अनुवाकं 12 –