अ॒क्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विन᳚म् । त्रेता॑या आदिनवद॒र्॒.शम् । द्वा॒प॒राय॑ बहिः॒ सद᳚म् । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् । अद्ध्व॑ने ब्रह्मचा॒रिण᳚म् । पि॒शा॒चेभ्यः॑ सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निर्.ऋ॑त्यै गोघा॒तम् । क्षु॒धे गो॑विक॒र्तम् । क्षु॒त्तृ॒ष्णाभ्यां॒ तम् । यो गां ॅवि॒कृन्त॑न्तं माꣳ॒॒सं भिक्ष॑माण उप॒तिष्ठ॑ते ।
TB 3.4.16
1 पञ्चाशत्
॥
3.4.16 अनुवाकं 16 –