TB 3.4.19

1 पञ्चाशत्

3.4.19 अनुवाकं 19 –

3.4.19.1
अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒-मति॑दीर्घम् । अति॑कृश॒मत्यꣳ॑सलम् । अति॑शुक्ल॒-मति॑कृष्णम् । अति॑श्लक्ष्ण॒-मति॑लोमशम् । अति॑किरिट॒-मति॑दन्तुरम् । अति॑मिर्मिर॒-मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒क्षायै॑ कुमा॒रीम् ।