भूम्यै॑ पीठस॒र्पिण॒माल॑भते । अ॒ग्नयेऽꣳ॑स॒लम् । वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑क्षाय वꣳशन॒र्तिन᳚म् । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒क्षम् । च॒न्द्रम॑से मिर्मि॒रम् । नक्ष॑त्रेभ्यः कि॒लास᳚म् । अह्ने॑ शु॒क्लं पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्णं पि॑ङ्गा॒क्षम् ।
TB 3.4.17
1 पञ्चाशत्
॥
3.4.17 अनुवाकं 17 –