य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्योऽव॑तोकाम् । स॒म्ॅव॒थ्स॒राय॑ पर्या॒रिणी᳚म् । प॒रि॒व॒थ्स॒रायावि॑जाताम् । इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒थ्स॒राया॒तीत्व॑रीम् । व॒थ्स॒राय॒ विज॑र्जराम् । स॒र्व॒थ्सं॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् । अ॒न्यतो॑रण्याय दाव॒पम् ।
TB 3.4.11
1 पञ्चाशत्
॥
3.4.11 अनुवाकं 11 –