TB 3.4.5

1 पञ्चाशत्

3.4.5 अनुवाकं 5 –

3.4.5.1
न॒दीभ्यः॑ पौञ्जि॒ष्टम् । ऋ॒क्षीका᳚भ्यो॒ नैषा॑दम् । पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद᳚म् । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒फ्स॒राभ्यो॒ व्रात्य᳚म् । स॒र्प॒दे॒व॒ज॒नेभ्यो ऽप्र॑तिपदम् । अवे᳚भ्यः कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धाने᳚भ्यः कण्टकका॒रम् ।