प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् । अन्ता॑य बहुवा॒दिन᳚म् । अ॒न॒न्ताय॒ मूक᳚म् । मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒द्ध्मम् । आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒द्ध्मम् । ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् । सा॒द्ध्येभ्य॑श्चर्म॒म्णम् ।
TB 3.4.13
1 पञ्चाशत्
॥
3.4.13 अनुवाकं 13 –