गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारि᳚म् । आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्र॒मुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तक्षा॑णम् ।
TB 3.4.2
1 पञ्चाशत्
॥
3.4.2 अनुवाकं 2 –