प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.7.11.2 TS 4.7.11.2
मे॒ चत॑स्रश्च मे॒ ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विꣳश॒तिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ ऽष्टाविꣳ॑शतिश्च मे॒ द्वात्रिꣳ॑शच्च मे॒ षट्-त्रिꣳ॑शच्च मे चत्वारिꣳ॒॒शच्च॑ मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑-पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्द्धा च॒ व्यश्ञि॑यश्चा- ( ) -न्त्याय॒नश्चा- न्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चा-धि॑पतिश्च ॥
पदपाठः (Word-by-word)
मे॒ । चत॑स्रः । च॒ । मे॒ । अ॒ष्टौ । च॒ । मे॒ । द्वाद॑श । च॒ । मे॒ । षोड॑श । च॒ । मे॒ । विꣳ॒श॒तिः । च॒ । मे॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । अ॒ष्टाविꣳ॑शति॒रित्य॒ष्टा - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । द्वात्रिꣳ॑शत् । च॒ । मे॒ । षट्त्रिꣳ॑श॒दिति॒ षट् - त्रिꣳ॒॒श॒त् । च॒ । मे॒ । च॒त्वा॒रिꣳ॒॒शत् । च॒ । मे॒ । चतु॑श्चत्वारिꣳश॒दिति॒ चतुः॑ - च॒त्वा॒रिꣳ॒॒श॒त् । च॒ । मे॒ । अ॒ष्टाच॑त्वारिꣳश॒दित्य॒ष्टा - च॒त्वा॒रिꣳ॒॒श॒त् । च॒ । मे॒ । वाजः॑ । च॒ । प्र॒स॒व इति॑ प्र - स॒वः । च॒ । अ॒पि॒ज इत्य॑पि-जः । च॒ । क्रतुः॑ । च॒ । सुवः॑ । च॒ । मू॒द्‌र्धा । च॒ । व्यश्नि॑य॒ इति॑ वि - अश्नि॑यः ( ) । च॒ । अ॒न्त्या॒य॒नः । च॒ । अन्त्यः॑ । च॒ । भौ॒व॒नः । च॒ । भुव॑नः । च॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । च॒ ॥
पदसंख्या: 61