मे ऽकृष्टप॒च्यं च॑ मे ग्रा॒यांश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां ॅवि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥
पदपाठः (Word-by-word)
मे॒ । अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् । च॒ । मे॒ । ग्रा॒म्याः । च॒ । मे॒ । प॒शवः॑ । आ॒र॒ण्याः । च॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । वि॒त्तम् । च॒ । मे॒ । वित्तिः॑ । च॒ । मे॒ । भू॒तम् । च॒ । मे॒ । भूतिः॑ । च॒ । मे॒ । वसु॑ । च॒ । मे॒ । व॒स॒तिः । च॒ । मे॒ । कर्म॑ । च॒ । मे॒ । शक्तिः॑ । च॒ । मे॒ । अर्थः॑ । च॒ । मे॒ । एमः॑ । च॒ । मे॒ । इतिः॑ । च॒ । मे॒ । गतिः॑ । च॒ । मे॒ ॥