विप्रा अमृता ऋतज्ञाः । अ॒स्य मद्ध्वः॑ पिबत मा॒दय॑द्ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥ वाजः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो नो॒ वाजो॑ दे॒वाꣳ ऋ॒तुभिः॑ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर्भवेयं ॥ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑क्षे॒ पयो॑ धां । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्यं᳚ ॥ सं मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सं मा॑ सृजाम्य॒प - [ ]
पदपाठः (Word-by-word)
वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ज्ञा॒ इत्यृ॑त - ज्ञाः॒ ॥ अ॒स्य । मद्ध्वः॑ । पि॒ब॒त॒ । मा॒दय॑द्ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिभि॒रिति॑ प॒थि - भिः॒ । दे॒व॒यानै॒रिति॑ देव - यानैः᳚ ॥ वाजः॑ । पु॒रस्ता᳚त् । उ॒त । म॒द्ध्य॒तः । नः॒ । वाजः॑ । दे॒वान् । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । क॒ल्प॒या॒ति॒ ॥ वाज॑स्य । हि । प्र॒स॒व इति॑ प्र - स॒वः । नन्न॑मीति । विश्वाः᳚ । आशाः᳚ । वाज॑पति॒रिति॒ वाज॑ - प॒तिः॒ । भ॒वे॒य॒म् ॥ पयः॑ । पृ॒थि॒व्याम् । पयः॑ । ओष॑धीषु । पयः॑ । दि॒वि । अ॒न्तरि॑क्षे । पयः॑ । धा॒म् ॥ पय॑स्वतीः । प्र॒दिश॒ इति॑ प्र - दिशः॑ । स॒न्तु॒ । मह्य᳚म् ॥ समिति॑ । मा॒ । सृ॒जा॒मि॒ । पय॑सा । घृ॒तेन॑ । समिति॑ । मा॒ । सृ॒जा॒मि॒ । अ॒पः ।