प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.7.12.3 TS 4.7.12.3
ओष॑धीभिः । सो॑ऽहं ॅवाजꣳ॑ सनेयमग्ने ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥ स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒भूंर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑ऽसि म॒रुतां᳚ ग॒णः श॒भूंर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्युर॑सि॒ दुव॑स्वाञ्छ॒भूंर्म॑यो॒भूरभि मा॑ ( ) वाहि॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
ओष॑धीभि॒रित्योष॑धि - भिः॒ ॥ सः । अ॒हम् । वाज᳚म् । स॒ने॒य॒म् । अ॒ग्ने॒ ॥ नक्तो॒षासा᳚ । सम॑न॒सेति॒ स-म॒न॒सा॒ । विरू॑पे॒ इति॒ वि-रू॒पे॒ । धा॒पये॑ते॒ इति॑ । शिशु᳚म् । एक᳚म् । स॒मी॒ची इति॑ ॥ द्यावा᳚ । क्षाम॑ । रु॒क्मः । अ॒न्तः । वीति॑ । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न्न् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ॥ स॒मु॒द्रः । अ॒सि॒ । नभ॑स्वान् । आ॒र्द्रदा॑नु॒रित्या॒र्द्र-दा॒नुः॒ । श॒भूंरिति॑ शं-भूः । म॒यो॒भूरिति॑ मयः-भूः । अ॒भीति॑ । मा॒ । वा॒हि॒ । स्वाहा᳚ । मा॒रु॒तः । अ॒सि॒ । म॒रुता᳚म् । ग॒णः । श॒भूंरिति॑ शं - भूः । म॒यो॒भूरिति॑ मयः - भूः । अ॒भीति॑ । मा॒ । वा॒हि॒ । स्वाहा᳚ । अ॒व॒स्युः । अ॒सि॒ । दुव॑स्वान् । श॒भूंरिति॑ शं - भूः । म॒यो॒भूरिति॑ मयः - भूः । अ॒भीति॑ । मा॒ ( ) । वा॒हि॒ । स्वाहा᳚ ॥
पदसंख्या: 52