आ निष॑त्तः ॥ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒र्विश्व॑स्य मू॒र्द्धन्नधि॑ तिष्ठसि श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑य-म॒न्तरायु॒-र्द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते ॥ उ॒द्नो द॑त्तोद॒धिं भि॑न्त्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दि॒वो मू॒र्द्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनां । वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥ येनर्.ष॑य॒स्तप॑सा स॒त्र - [ ]
पदपाठः (Word-by-word)
एति॑ । निष॑त्त॒ इति॒ नि - स॒त्तः॒ ॥ नमः॑ । ते॒ । अ॒स्तु॒ । मा । मा॒ । हिꣳ॒॒सीः॒ । विश्व॑स्य । मू॒द्र्धन्न् । अधीति॑ । ति॒ष्ठ॒सि॒ । श्रि॒तः ॥ स॒मु॒द्रे । ते॒ । हृद॑यम् । अ॒न्तः । आयुः॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । भुव॑नेषु । अर्पि॑ते॒ इति॑ ॥ उ॒द्नः । द॒त्त॒ । उ॒द॒धिमित्यु॑द - धिम् । भि॒न्त॒ । दि॒वः । प॒र्जन्या᳚त् । अ॒न्तरि॑क्षात् । पृ॒थि॒व्याः । ततः॑ । नः॒ । वृष्ट्या᳚ । अ॒व॒त॒ ॥ दि॒वः । मू॒द्र्धा । अ॒सि॒ । पृ॒थि॒व्याः । नाभिः॑ । ऊर्क् । अ॒पाम् । ओष॑धीनाम् ॥ वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । शर्म॑ । स॒प्रथा॒ इति॑ स - प्रथाः᳚ । नमः॑ । प॒थे ॥ येन॑ । ऋष॑यः । तप॑सा । स॒त्रम् ।