मास॒तेन्धा॑ना अ॒ग्निꣳ सुव॑रा॒भर॑न्तः । तस्मि॑न्न॒हं नि द॑धे॒ नाके॑ अ॒ग्निमे॒तं ॅयमा॒हुर्मन॑व स्ती॒र्णब॑र्.हिषं ॥ तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ आ वा॒चो मद्ध्य॑-मरुहद्-भुर॒ण्युर॒य-म॒ग्निः सत्प॑ति॒श्चेकि॑तानः ।पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुते॒ - [ ]
पदपाठः (Word-by-word)
आस॑त । इन्धा॑नाः । अ॒ग्निम् । सुवः॑ । आ॒भर॑न्त॒ इत्या᳚ - भर॑न्तः ॥ तस्मिन्न्॑ । अ॒हम् । नीति॑ । द॒धे॒ । नाके᳚ । अ॒ग्निम् । ए॒तम् । यम् । आ॒हुः । मन॑वः । स्ती॒र्णब॑र्.हिष॒मिति॑ स्ती॒र्ण - ब॒र्॒.हि॒ष॒म् ॥ तम् । पत्नी॑भिः । अन्विति॑ । ग॒च्छे॒म॒ । दे॒वाः॒ । पु॒त्रैः । भ्रातृ॑भि॒रिति॒ भ्रातृ॑ - भिः॒ । उ॒त । वा॒ । हिर॑ण्यैः ॥ नाक᳚म् । गृ॒ह्णा॒नाः । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒के । तृ॒तीये᳚ । पृ॒ष्ठे । अधीति॑ । रो॒च॒ने । दि॒वः ॥ एति॑ । व॒चः । मद्ध्य᳚म् । अ॒रु॒ह॒त् । भु॒र॒ण्युः । अ॒यम् । अ॒ग्निः । सत्प॑ति॒रिति॒ सत् - प॒तिः॒ । चेकि॑तानः ॥ पृ॒ष्ठे । पृ॒थि॒व्याः । निहि॑त॒ इति॒ नि - हि॒तः॒ । दवि॑द्युतत् । अ॒ध॒स्प॒दमित्य॑धः - प॒दम् । कृ॒णु॒ते॒ ।