प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.7.13.5 TS 4.7.13.5
उ॑त्त॒मः ॥ उद्-बु॑द्ध्यस्वाग्ने॒ प्रति॑ जागृह्येन मिष्टापू॒र्ते सꣳ सृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्वꣳस्त्वा॑ पि॒तरं॒ ॅयुवा॑न-म॒न्वाताꣳ॑सी॒त् त्वयि॒ तन्तु॑मे॒तं ॥ अ॒यं ते॒ योनि॑र्.ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्द्धया र॒यिं ॥
पदपाठः (Word-by-word)
उ॒त्त॒म इत्यु॑त्-त॒मः ॥ उदिति॑ । बु॒द्ध्य॒स्व॒ । अ॒ग्ने॒ । प्रतीति॑ । जा॒गृ॒हि॒ । ए॒न॒म् । इ॒ष्टा॒पू॒र्ते इती᳚ष्टा - पू॒र्ते । समिति॑ । सृ॒जे॒था॒म् । अ॒यम् । च॒ ॥ पुनः॑ । कृ॒ण्वन्न् । त्वा॒ । पि॒तर᳚म् । युवा॑नम् । अ॒न्वाताꣳ॑सी॒दित्य॑नु-आताꣳ॑सीत् । त्वयि॑ । तन्तु᳚म् । ए॒तम् ॥ अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ॥ तम् । जा॒नन्न् । अ॒ग्ने॒ । एति॑ । रो॒ह॒ । अथ॑ । नः॒ । व॒द्‌र्ध॒य॒ । र॒यिम् ॥
पदसंख्या: 37